SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ लोहसर्वस्वम् । जयत्यतीसारमुदाररूपं हुताशमान्यं ग्रहणीविकारम् ॥ असि मेहानथ पाण्डुरोगं प्लीहात्रवृद्धिं परिणामशूलम् ॥ सप्ताभ्रकम् । वरावरीवारिदवारिवीरारजःसमं तेन समाभ्रचूर्णम् ॥ क्षौद्राज्यलीढं युवतीसहस्रलीलासहवं कुरुते नराणाम् ।। योगसाराभ्रकम् । कणाशिलोद्भेदसमानमभ्रं विलीढमाज्येन पयोऽनुपानम् ॥ निहन्ति यक्ष्माणमपि प्रवृद्धं ससैन्यमेवात्र न चित्रमस्ति । त्रिनेत्रम् । पूर्वोषधीशोधितसूतकस्य तथैव संशोधितगन्धकस्य ॥ कर्षण कोंन्मितमन्वितं खं सिद्धं यथावल्लघुना पुटेन ॥ सम्भावितं तद्बहुधा च धर्मे लज्जावतीस्वाङ्गभवद्रवेण ॥ सौवर्चलत्र्यूषणहिङ्गुयुक्तं भुक्तं वयोवहिबलानुरूपम् ॥ २२० ॥ हरत्यतीसारमुदाररूपं ज्वरं कफोत्थं ग्रहणीविकारम् ॥ आध्मानमग्नेबलसादमर्चाविकारशोथानविनिद्रतां च ॥ तुरङ्गगन्धाभ्रकम् । तुरङ्गगन्धाकथिताढके द्वे चतुष्पलाज्ये कुडवद्याभ्रकम् ॥ निशासमं चूर्णितवानरीवरात्रिजातकाम्भोदपृथक्पलैः सह ॥ शृतं हिमं क्षौद्रपलाष्टसंयुतं पयोनुपानं च यथाग्नि भक्षितम् ॥ निहन्ति यक्ष्माणमुरःक्षतं क्षयं वायुं कृशवं प्रमदास्वहर्षणम् ॥ त्रिफलाभ्रकम् । फलत्रिकक्षोदसमानमभ्रं यदा विलीढं मधुना ससर्पिषा ॥ समासहस्रं वितनोति जीवितं विजित्य नूनं पलितं वलीयुतम् ।। अमृतप्राशम् । यथोत्तमं स्वर्णरजः समानं ब्राह्मीवचाकुष्ठशिवारजश्च ।। आयुःप्रकर्ष बलमङ्गपुष्टिं क्षौद्राज्यलीढं कुरुते शिशूनाम् । रस० ११ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy