Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 135
________________ लोहसर्वस्वम् । उदयभास्करम् । कटुत्रिकक्षोदसमांशमर्कचूर्णं विलीढं मधुना घृतेन ॥ निहन्त्यतीसारमथाग्निमान्द्यं दोषं ग्रहण्या जठरान् सगुल्मान् ॥ त्र्यम्बकम् । पूर्वौषधीशोधितशुद्धसृतगन्धाश्मशुल्बानि समानि कृत्वा ॥ रसाम्बुदस्वाङ्गसमुद्भवेन द्रवेण वाऽऽप्लाव्य पुढे लघिष्ठे ॥२३४॥ सिद्धं सजीरोषणहिङ्गुयुक्तं निहन्त्यतीसारमिदं न चित्रम् ॥ एवमेकैकशो योगा भेषजान्तरयोगतः । विलोक्यानेकशास्त्राणि कियन्तोऽत्र प्रदर्शिताः ॥ इत्येकशो योगः ॥ अथ द्विशो योगाः । गगनायसम् । २५ तत्र लोहगगनं पृथक् पलैः पञ्चभिर्मितमथाऽन्वितं पलैः ॥ पञ्चभिश्च रजसोऽमृतावराहस्तिकर्णकरिकेशरत्वचाम् ॥ २३६ ॥ जीवनीयघनतण्डुलीयकत्र्यूषणानियवशुकसम्भवात् ॥ जीवकद्वयमुकूलकाद्वलाब्रह्मवृक्षफल विश्वगन्धकात् ॥ २३७ ॥ केरलीमधुकतालमूलिका गोस्तनीत्रिलवणात् सचन्दनात् ॥ जातिसस्य कदलीसितात्रिवृत्पिण्डखर्जुरफलात् सरोचनात् ॥ पत्रकाच्च सह चन्द्रबालिकात पाचयेत् पयसि तत्पलाष्टके || आज्यषोडशपले तदुन्मिते त्रैफलाम्भसि मृदौ हुताशने ॥ माषकोत्करनिभां यदा तदा सिद्धमेतदवतार्य पेषितम् ॥ शुद्धलोहविधिना प्रयोजितं तं तमेव कुरुते गुणोत्तरम् ॥ २४० ॥ चतुर्मुखम् । शुद्धगन्धकरसाभ्रकायसं क्षीरिसंभवरसैः परिप्लुतम् ॥ गोकरीषपुटितं लघौ पुढे सेवितं च मधुना यथाबलम् ॥२४१॥ हन्ति शोथमतिसारपाण्डुतां पक्तिशूलमुदराणि - कामलाम् ॥ वह्निमार्दवमुरःक्षतक्षयं पायुजग्रहणिकामयादिकान् ॥ २४२ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144