Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
लोहसर्वस्वम् ।
ताम्रगुणाः ।
तद्रसे मधुरं तिक्तं कषायं लघु लेखनम् ॥ रोपणं कफपित्तघ्नं कटुपाकरसं हिमम् ॥ ११९ ॥ ताम्रसंशोधनम् । अथ तन्महिषीत सुचिरवृते सप्तधा विनिक्षिप्तम् ॥ सम्यग्विद्रुतमनले गतगिरिदोषं प्रशंसन्ति ॥ १२० ॥
ताम्रमारणविधिः ।
१२
तदनु च कण्टकवेध्यं कृत्वाथ रसेन्द्रपरिलिप्तम् ॥ तावद्दिनं विधेयं यावत्तत्रोटितं त्रुटति ॥ १२१ ॥ अथ समगन्धकसुतात् कज्जलिकां मातुलिङ्गरसपिष्टाम् ॥ कृत्वा शोधनलेपं लिम्पेत् पत्रीकृते शुल्बे ॥ १२२ ॥ अथ तत्कच्छपत्रे निहितं तीत्रेण वह्निना पुटितम् ॥ यामत्रये व्यतीते गृह्णीयात् स्वाङ्गसंशीतम् ॥ १२३ ॥ भवति च रसेऽतिमिष्टं न च कुरुते भक्षितं समुत्क्त्रेदम् ॥ कर्मणि योग्यं विद्धि तदा साधु संसिद्धम् ॥ १२४ ॥
मारितताम्रगुणाः ।
इति वरपरिपाटीपाटवैः साधुसिद्धं प्रतिदिवसमथैवं सेवितं धुर्यवीर्यम् ॥ अपनयति समस्तानेव रोगान् प्रवृद्धा
ञ्जनयति ननु शक्ति शक्तिभृत्स्वाङ्गजत्वात् ॥ १२५ ॥
इति ताम्रसिद्धिः ॥
एषामेकैकशो योगाः सन्ति चत्वार एव हि ॥ द्विशः षडेव चत्वारस्त्रिशश्चैकश्च सर्वशः ॥ १२६ ॥
लोहादीनां चतुर्णामेकशो योगाः । तत्रैकशः केवलमेव तीक्ष्णं सिद्धामृताख्यं प्रवदन्ति वैद्याः ॥ दिव्यामृताख्यं कनकामृताख्यं स्वर्ण च शुल्बामृतसंज्ञ मर्कम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144