Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 120
________________ १० लोहसर्वस्वम् । सधान्यपोट्टलीबद्धं करमर्दनतः स्रुतम् ॥ आदाय साधितं प्राग्वद्युज्यते सर्वकर्मणि ॥ १०१ ॥ मारिताभ्रसेवनविधिः ः । एवं विधानपरिसिद्धमनल्पवीर्य वज्रं भजन्ति सततं विधिना नरा ये । तान् वज्रसारघटितान् स्फुरितप्रकाशान् कुर्यादिदं हि कुलिशाङ्गसमुद्भवात् ॥ १०२ ॥ इत्यभ्रकसिद्धिः ॥ सुवर्णोत्पत्तिः । पुरा निजाश्रमस्थानां सप्तर्षीणां जितात्मनाम् ॥ पत्नीर्विलोक्य लावण्यलक्ष्मीसम्पन्नयौवनाः ।। १०३. ॥ कन्दर्पदर्पविध्वस्तचेतसो जातवेदसः ॥ पतितं यद्धरापृष्ठे रेतस्तद्धेमतामियात् ॥ १०४ ॥ सुर्वणगुणाः । तदुच्यं कान्तिदं स्थैर्यमेधायुः पुष्टिवर्धनम् ॥ कषायतिक्तमधुरं पाप्मालक्ष्मी विषापहम् ॥ १०५ ॥ प्रशस्त सुवर्णलक्षणम् । शंसन्ति तत्कषे रक्तं मृदु भङ्गे च पीतकम् ॥ बा कुङ्कुमसङ्काशं यच्च पाकैर्न हीयते ॥ १०६ ॥ सुवर्णशोधनविधिः । अथ तत्खदिराङ्गारैर्ध्नातं सम्यक् प्रविद्रुतम् ।। सप्तकृत्वः क्षिपेत्काथे काञ्चनारसमुद्भवे ॥ १०७ ॥ एवं कृतस्य चैतस्य गिरिदोषः प्रशाम्यति ॥ सुवर्णमारणविधिः । ततो रेतितमेवैतदेतत्तुल्यं च सूतकम् ॥ १०८ ॥ सुतार्थ धातुमाक्षीकं कुनटीं माक्षिको न्मिताम् ॥ गन्धकं सूतकोन्मानं सर्वमम्लद्रवप्लुतम् ॥ १०९ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144