________________
१०
लोहसर्वस्वम् ।
सधान्यपोट्टलीबद्धं करमर्दनतः स्रुतम् ॥ आदाय साधितं प्राग्वद्युज्यते सर्वकर्मणि ॥ १०१ ॥ मारिताभ्रसेवनविधिः ः ।
एवं विधानपरिसिद्धमनल्पवीर्य
वज्रं भजन्ति सततं विधिना नरा ये । तान् वज्रसारघटितान् स्फुरितप्रकाशान् कुर्यादिदं हि कुलिशाङ्गसमुद्भवात् ॥ १०२ ॥
इत्यभ्रकसिद्धिः ॥
सुवर्णोत्पत्तिः ।
पुरा निजाश्रमस्थानां सप्तर्षीणां जितात्मनाम् ॥ पत्नीर्विलोक्य लावण्यलक्ष्मीसम्पन्नयौवनाः ।। १०३. ॥ कन्दर्पदर्पविध्वस्तचेतसो जातवेदसः ॥
पतितं यद्धरापृष्ठे रेतस्तद्धेमतामियात् ॥ १०४ ॥
सुर्वणगुणाः ।
तदुच्यं कान्तिदं स्थैर्यमेधायुः पुष्टिवर्धनम् ॥ कषायतिक्तमधुरं पाप्मालक्ष्मी विषापहम् ॥ १०५ ॥ प्रशस्त सुवर्णलक्षणम् ।
शंसन्ति तत्कषे रक्तं मृदु भङ्गे च पीतकम् ॥ बा कुङ्कुमसङ्काशं यच्च पाकैर्न हीयते ॥ १०६ ॥ सुवर्णशोधनविधिः ।
अथ तत्खदिराङ्गारैर्ध्नातं सम्यक् प्रविद्रुतम् ।। सप्तकृत्वः क्षिपेत्काथे काञ्चनारसमुद्भवे ॥ १०७ ॥ एवं कृतस्य चैतस्य गिरिदोषः प्रशाम्यति ॥ सुवर्णमारणविधिः । ततो रेतितमेवैतदेतत्तुल्यं च सूतकम् ॥ १०८ ॥ सुतार्थ धातुमाक्षीकं कुनटीं माक्षिको न्मिताम् ॥ गन्धकं सूतकोन्मानं सर्वमम्लद्रवप्लुतम् ॥ १०९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com