________________
लोहसर्वस्वम् । खल्वे विमर्दयेद्गाढं यावनिश्चन्द्रकं भवेत् ॥ ततः कच्छपयत्रस्थं तत्पुटेत् प्रहरद्वयम् ॥ ११० ॥ खाङ्गशीतं समुद्धृत्य पुटेभूगर्तगर्भगम् ॥ .. काञ्जीकशिग्रुसालञ्चीवराजम्बीरवारिणा ॥ १११॥ काश्चनारजयाभेकाचाङ्गेरीस्वरसैः क्रमात् ।। तदेतैरेव सूर्याशौ प्रदद्याद्भावनामपि ॥ ११२ ॥ नोवा सूक्ष्मदलीकृत्य श्वेतार्कपयसा प्लुतम् ॥ सिन्दूरकुनटीताप्यक्षोदैलेपितकाञ्चनम् ॥ ११३ ॥ मारयिखा पुटैगर्तपुटितं पूर्व भेषजैः ॥ तैरेव साधितं प्राग्वत् सिद्धिमायाति शाश्वतीम् ॥११४ ॥
मारितहेमगुणाः । इति च सिद्धमनुद्धतकर्मभि
विधिवदेतदुपासितमादरात् ॥ अनलदेहसमुद्भवतोऽनलं - प्रबलवीर्यमहो तनुतेतराम् ॥ ११५ ।।
इतिहेमसिद्धिः ॥ ताम्रोत्पत्तिः। शुक्रं यत्कार्तिकेयस्य पतितं धरणीतले ॥ तस्मादेव समुद्भूतं ताम्रमाहुः पुराविदः ॥११६ ॥
श्रेष्टताम्रलक्षणम् । तच्च प्रवरं यत्तनु भङ्गे करवीरकुसुमसङ्काशम् ।। यत्राम्लं च विपकं कथमपि हि न याति कटुभावम् ॥११७॥ श्वसपाटकादिकाकरनिकरसमुद्भूतसकलशुल्वेभ्यः ॥ नेपालदेशजातं प्रवरं तस्याधिकारोत्र ॥ ११८ ॥
१ 'नोवा' इति निपातसमुदायः अथवेत्यर्थे ।
रस० १०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com