Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 130
________________ .२० लोहसर्वस्वम् । लोहाष्टकम् ॥ माक्षीकधातुमधुपारदलोहचूर्णपथ्याशिलाजतुविडङ्गघृतानि लिह्यात् ॥ तत्सैकविंशतिमहान्यंतिपूर्णधातुः साशीतिकोऽपि रमयेदवलां युवेव ॥ १९४ ॥ धात्रीखण्डायसम् ॥ धात्रीरसेनाढकसंमितेन लोहं रजश्चाष्टपलप्रमाणम् ॥ सितासमानं कुडवोन्मिताज्ये विपाच्य तस्मिन्नथ किञ्चिदुष्णे || क्षिपेद्रजो विश्वकणोषणोत्थं त्रिजातकोत्थं च फलत्रिकोत्थम् ॥ पलप्रमाणं पृथगेव शीते मधु प्रदेयं कुडवप्रमाणम् ॥ १९६ ॥ तद्भक्षयेद्वह्निबलं विदित्वा हितानसेवी जयति प्रसह्य ॥ चिरानुबन्धं परिणामशूलं लीह्नस्तु वृद्धिं जठराग्निमान्धम् १९७ वासाखण्डायसम् ॥ वासारसेनार्मणसंमितेन चूर्ण सितातुल्यमयः समुत्थम् ॥ प्रस्थप्रमाणं कुडवोन्मिताज्ये पक्खा कदुष्णे विनिधाय तस्मिन् ॥ त्रिजातकत्र्यूषणमुस्तधान्यद्विजीरकेभ्यः परिचूर्णितेभ्यः ॥ पलं पलं दर्विकया विलोड्य शीतं युतं क्षौद्रचतुष्पलेन ॥ १९९ ॥ लीढं जयेत् तत्प्रबलं च कासं पित्तं सरक्तं क्षयमग्निसादम् ॥ करोति पुष्टिं वपुषः प्रवृद्धिं बलं परां कान्तिमनामयत्वम् २०० दावोहम् ॥ दाववराव्योषविडङ्गकृष्णाः समाः समं ताभिरयोरजश्च ॥ क्षौद्राज्यीढं विनिहन्ति सद्यः सकामलं पाण्डुगदं नराणाम् ॥ वरायं लोहम् ॥ वरावरीव्योषवलाद्वयानां रजो रजो लोहसमुद्भवं च ॥ समं विलीढं मधुना घृतेन क्षयं ससैन्यं विनिहन्त्यवश्यम् || Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144