Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
१४
लोहसर्वस्वम् ।
यथा ॐ अमृतोद्भवाय फट् ॥
इति रक्षामन्त्रः ॥
प्रणवोऽथ नमश्चण्डवज्रपाणय इत्यथ ॥ ततः परं महायक्षसेनाधिपतये ततः ॥ १३६ ॥ द्विरुक्तः सुरुशब्दः स्यान्महाविद्याबलाय च ॥ ततः स्वाहेति मन्त्रोऽयं बलिकर्मणि पूजितः ॥ १३७ ॥ यथा ॐ नमश्चण्डवज्रपाणये महायक्षसेनाधिपतये सुरु सुरु महाविद्याबलाय स्वाहा ॥
इति बलिमन्त्रः ॥
प्रणवादमृताशब्दः सम्बुद्ध्येकत्वसाधितः ॥ ततो हूमिति मन्त्रोऽयं भेषजप्राशने मतः ॥ १३८ ॥ ॐ अमृते हूम् ॥
इति प्राशनमन्त्रः ॥
लोहयोगानां रोगविशेषादनुपानविशेषाः । अथौषधात् षष्टिगुणं च दुग्धं धारोष्णमर्धोदकसाधितं वा ॥ पिवेदनुष्णं त्वथ सात्म्यतो वा क्षीरोक्तमात्रं स्वरसं गुडूच्याः ॥ फलत्रिकेण कथितं जलं वा क्षौद्रेण वा गोजलमेव सिद्धम् ॥ तथा यथारोगहर प्रयोगनिष्काथ कल्काम्बुनिजद्रवान् वा १४० रास्त्राम्बु वाते कफजे कणाम्बु द्राक्षाम्बु पित्ते सितयाऽनुपेषम् ।। धात्रीजलं शर्करयाऽम्लपित्ते पित्तानिलेऽम्भो लघुपञ्चमूल्याः ॥ या पञ्चमूली महती प्रसिद्धा तया श्रुतं वारि कफे सवाते ॥ गदे त्रिदोषे कणया सनाथः काथोऽनुपेयो दशमूलसिद्ध: १४२ चिरोषितं जर्जरितस्य तोयं किराततिक्तस्य कणान्वितस्य ॥
ज्वरेऽनुपेयं प्रबलेऽतिसारे कृताञ्जलिः स्वाङ्गसमुद्भवाम्बु ॥ १४३ ॥ रक्तातिसारे मधुनाऽनुपेयः स्वाङ्गद्रवो हिज्जलपल्लवानाम् ॥ श्रीवृक्षमाकन्द कजास्थिसारो मधुप्लुतछतिसारके च ॥ १४४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144