SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ १४ लोहसर्वस्वम् । यथा ॐ अमृतोद्भवाय फट् ॥ इति रक्षामन्त्रः ॥ प्रणवोऽथ नमश्चण्डवज्रपाणय इत्यथ ॥ ततः परं महायक्षसेनाधिपतये ततः ॥ १३६ ॥ द्विरुक्तः सुरुशब्दः स्यान्महाविद्याबलाय च ॥ ततः स्वाहेति मन्त्रोऽयं बलिकर्मणि पूजितः ॥ १३७ ॥ यथा ॐ नमश्चण्डवज्रपाणये महायक्षसेनाधिपतये सुरु सुरु महाविद्याबलाय स्वाहा ॥ इति बलिमन्त्रः ॥ प्रणवादमृताशब्दः सम्बुद्ध्येकत्वसाधितः ॥ ततो हूमिति मन्त्रोऽयं भेषजप्राशने मतः ॥ १३८ ॥ ॐ अमृते हूम् ॥ इति प्राशनमन्त्रः ॥ लोहयोगानां रोगविशेषादनुपानविशेषाः । अथौषधात् षष्टिगुणं च दुग्धं धारोष्णमर्धोदकसाधितं वा ॥ पिवेदनुष्णं त्वथ सात्म्यतो वा क्षीरोक्तमात्रं स्वरसं गुडूच्याः ॥ फलत्रिकेण कथितं जलं वा क्षौद्रेण वा गोजलमेव सिद्धम् ॥ तथा यथारोगहर प्रयोगनिष्काथ कल्काम्बुनिजद्रवान् वा १४० रास्त्राम्बु वाते कफजे कणाम्बु द्राक्षाम्बु पित्ते सितयाऽनुपेषम् ।। धात्रीजलं शर्करयाऽम्लपित्ते पित्तानिलेऽम्भो लघुपञ्चमूल्याः ॥ या पञ्चमूली महती प्रसिद्धा तया श्रुतं वारि कफे सवाते ॥ गदे त्रिदोषे कणया सनाथः काथोऽनुपेयो दशमूलसिद्ध: १४२ चिरोषितं जर्जरितस्य तोयं किराततिक्तस्य कणान्वितस्य ॥ ज्वरेऽनुपेयं प्रबलेऽतिसारे कृताञ्जलिः स्वाङ्गसमुद्भवाम्बु ॥ १४३ ॥ रक्तातिसारे मधुनाऽनुपेयः स्वाङ्गद्रवो हिज्जलपल्लवानाम् ॥ श्रीवृक्षमाकन्द कजास्थिसारो मधुप्लुतछतिसारके च ॥ १४४ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy