SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ लोहसर्वस्वम् । लोहादीनां चतुर्णा द्विशो योगाः । द्विशश्व तीक्ष्णाम्बुदमम्बुदार्क हेमाम्बुदं काञ्चनभास्करं च ॥ हेमायसाख्यं तपनायसाख्यं १३ समृचिरे रोगविदः पुराणाः ॥ १२८ ॥ लोहादीनां चतुर्णां त्रिशः प्रयोगाः । त्रिशः प्रयोगं कनकाम्बुदायसं विदुर्बुधा भास्करवारिदायसम् ॥ हेमार्कलोहं गगनार्ककाञ्चनं सर्वैव तीक्ष्णाम्बुदहेमभास्करम् ॥ १२९ ॥ एतेऽयसां पञ्चदशाभियोगा मताश्च शुद्धायसनामधेयाः ॥ रसायना रोगहराः क्रियायां यथोत्तरं तीव्रतरप्रभावाः ॥ १३० ॥ पूर्वोक्तयोगानां प्रयोगविधिः । 11 अथैनमेषां विधिवत्प्रयोगं वितुल्यमध्वाज्यलवेन च प्लुतम् अयोमये लोहमयेन मर्दितं त्रिसप्तधा मर्दनमात्रमश्चितम् ॥ १३१ ॥ ध्यातं सुधात्वेन कृताभिनन्दं सद्विद्यवैद्यार्पितमादरेण ॥ अभ्यर्चितं सत्कुसुमैश्च गुञ्जाद्वयोन्मितं मन्त्रकृताभिरक्षम् ॥ १३२॥ विशुद्धकोष्ठः कृतमङ्गलः शुचिर्बलिं निवेद्यार्चितदेवसद्विजः ॥ दिनेऽनुकूले कृतमत्ररक्षणो भजेत् सुधीः प्राशनमत्रमुच्चरन् १३३ अथैते मन्त्रा यथा उद्भवोद्भवशब्दश्च चतुर्थ्यन्तोऽमृतात्परः || स्वाहान्तः प्रणवादिश्व मन्त्रोऽयं मर्दने मतः ॥ १३४ ॥ ॐ अमृतोद्भवोद्भवाय स्वाहा ॥ इति मर्दनमन्त्रः ॥ नरभेषजरक्षार्थमयमकोद्भवं विना ॥ स्वाहापदस्य च स्थाने फट्कारेणोपलक्षितः ।। १३५ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy