Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 125
________________ लोहसर्वखम् । शोथातिसारे च तथा ग्रहण्यां शुण्ठीरजो वा दशमूलतोयम् ।। सामे तथा शुण्ठ्यमृताम्बु कोष्णं पुनर्नवाम्भोऽनुपिबेच्च शोथे। कृमौ च जन्तुघ्नपलाशबीजकल्कोद्भवं वारि मधुप्रगाढम् ।। क्लैब्ये विदारीस्वरसं सिताढ्यं निजाम्बु दुर्नामनि तालमूल्याः॥ श्वासेऽम्बु कोष्णं समविश्वभार्य वासाम्बु कासे मधुनाऽनुपेयम् ॥ पित्ते सरक्ते मधुशर्कराढ्यं सुशीतलं फल्गुफलोद्भवाम्बु ॥१४७॥ मूत्रग्रहेऽम्भस्तृणपञ्चमूल्या गुडूचिकाम्भः समधु प्रमेहे ॥ सुधायवक्षारयुतं कटूष्णमम्भोऽनुपेयं जठरामयेषु ॥ १४८ ॥ जम्बीरजं वारि रुचिप्रणाशे मन्दानले चित्रकसिद्धमम्बु ॥ शोषेऽश्वगन्धादशमूलिकाभ्यां सिद्धं पयः शर्करया सनाथम् ॥ शूलेऽम्बु लोहप्रभवे विपकं सवृन्तबोधिद्रुमसप्तपत्रैः ॥ सशर्करं भर्जितमुद्गतोयं छ-मये लाजरजोमधुभ्याम् ॥१५॥ खप्नाङ्गनासङ्गमजातधातुच्युतौ द्रवस्तालफलस्य पेयः ॥ पयोऽथवा शर्करया सनाथं वरीविदारीद्रवसाधितं च ॥१५१॥ इत्थं किलान्येष्वपि चामयेषु क्रियाक्रमज्ञान विशेषतज्ज्ञः ॥ यथायथारोगहरं गदार्तेऽनुपानमेवं स्वयमेव युझ्यात् ॥१५२।। लोहसेवनानन्तरं कर्तव्यमाहारविहारादि । अथानुपानं प्रसमीक्ष्य कालरोगादिकान् सद्भिषजा प्रयुक्तम् ।। पीवैव मुस्तां किल चर्वयित्वा पिवेत्तु कल्कं द्रवमेव तासाम् ॥ ततः समाचम्य लवङ्गपूगकर्पूरताम्बूलयुगं च जग्ध्वा ॥ आस्तीर्णशय्यातलसंनिविष्टो भजेत कामं ननु वामपार्श्वम् ।। ताम्बूलमात्रामथ भूरि खादेन्मलानुलोमार्थमतन्द्रितोऽसौ ॥ मलाप्रवृत्तौ च पिबेत् कटू(दु)ष्णं तोयं यवक्षाररजोनुकीर्णम् ।। एवं द्वितीये दिवसेऽपि गुञ्जाद्वयान्वितं दिव्यरसायनं तत् ॥ जग्ध्वा ततोऽन्येधुरिदं द्विगुञ्जाप्रवृद्धमेवानुभजेद्विधिज्ञः ॥१५५ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144