Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 118
________________ लोहसर्वखम् । तत्र कृष्णमुपादेयमत्र तद्धि गुणोत्तरम् ॥ तस्याप्याकरभेदेन वर्णिता विविधा विधाः ॥७६॥ तास्ताः सम्यक् प्रवक्ष्यामि तदधीना गुणा यतः॥ इतश्चोत्तरशैलोत्थं बहुसत्त्वं गुणोत्तरम् ॥ ७७ ॥ तत्र दक्षिणशैलेऽशोषादल्पगुणं हि तत् ॥ अल्पसत्त्वतया धत्ते सत्त्वे शान्तिगुणोत्तरंम् ॥ ७८ ॥ शंसन्ति मुनयः सर्वे प्रयोगे कृष्णमभ्रकम् ॥ अभ्रकशोधनम्। तदप्यशोधितं नैव सम्यकर्मकरं भवेत् ॥ ७९ ॥ अतः शोधनमेवादौ वक्ष्यते तस्य शाश्वतम् ॥ आदौ सुतापितं कृत्वा गगनं सप्तधा क्षिपेत् ।। ८०॥ निर्गुण्डीस्वरसे सम्यग्गिरिदोषप्रशान्तये ॥ अभ्रकसत्त्वपातनविधिः । ततोऽम्लकाञ्जिकोपेते दग्धां दत्त्वा पुनर्नवाम् ॥ ८१ ॥ परिपिष्य शिलापृष्ठे यावत्पङ्कोपमं भवेत् ॥ ततो वन्यकरीपेण पुटान् पश्च प्रदापयेत् ॥ ८२॥ निवातगर्तगर्भेऽसिन् वटक्षीरपरिप्लुते ॥ ततस्तच्छफरीमाषपश्चगव्यचतुर्गुणम् ॥ ८३ ॥ पादांशटङ्कणोपेतं वटीकृत्याऽऽतपे न्यसेत् ॥ ततो विध्मापयेत् सम्यगनलेन शुचिर्नरः॥८४ ॥ ततो विलोक्य तज्वाला सर्वतः कनकप्रभाम् ॥ ज्ञात्वा निष्पातितं सत्त्वं विरमेद् धमापनात् सुधीः ॥८५॥ अभ्रकसत्त्वमारणविधिः । ततः सत्त्वमुपादाय कि पृथग्विधाय च ॥ मारणे स्थालिकापाके पुटेऽस्मिल्लोहवद्विधिः ॥ ८६ ॥ अथवाऽऽवर्तितं चैतदनिष्पातितसत्त्वकम् ॥ ८७ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144