Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 117
________________ लोहसर्वस्वम् । लोहभस्मनः प्राशस्त्यम् । एवं यथास्वमन्येषां भेषजानामपि द्रवैः ॥६६॥ . पिंज्या प्रतिपुटे चैनं शिलापट्टे गुणोत्तरे ॥ यावद्भवति सान्द्रलं विध्वस्तसुमनारजः ॥ ६७॥ किंच यद्वारिणि क्षिप्तं प्लवते राजहंसवत् ॥ तुलितं दृश्यते स्तोकं तत्प्रशंसन्ति साधवः ॥ ६८॥ उक्तैः पुटौषधैरेव मन्यन्ते भावनाक्रमम् ॥ अन्ये तु द्वयमिच्छन्ति प्राक्पुटं भावनां ततः॥६९॥ विधिवत्सेवितलोहगुणाः । इति विविधविधानयुक्तिसिद्धं विधिवदयः सततं निषेव्यमाणम् ॥ इदमसुरशरीरसम्भवखादसुरबलं मनुजं करोति नूनम् ॥ ७० ॥ इति लोहासिद्धिः॥ अभ्रकोत्पत्तिः । इति संसाधिते लोहे साधयेत्कृष्णमभ्रकम् ॥ यथा तथा विधि वक्ष्ये नानागमविलोकितम् ॥७१॥ पुरा वधाय वृत्रस्य वज्रिणा वजमुज्झितम् ॥ विस्फुलिङ्गास्ततस्तस्य गगनं परिसर्पतः ॥७२॥ निपेतुर्मेघनिर्घोषाः शिखरेषु महीभृताम् ।। तेभ्य एव समुत्पन्नं तत्तगिरिषु चाभ्रकम् ।। ७३ ॥ तद्वजं वज्रजातलादभ्रमभ्ररयो(वो)द्भवात् ॥ गगनच्युतिजातलाद्रुचिरे गगनं सुराः ॥ ७४ ॥ __अभ्रकमेदाः तेषां लक्षणानि च । विप्रक्षत्रियविशूद्रजातिभेदाचतुर्विधम् ॥ क्रमेणैव सितं रक्तं पीतं कृष्णं च वर्णतः ॥ ७५ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144