________________
लोहसर्वस्वम् ।
लोहभस्मनः प्राशस्त्यम् । एवं यथास्वमन्येषां भेषजानामपि द्रवैः ॥६६॥ . पिंज्या प्रतिपुटे चैनं शिलापट्टे गुणोत्तरे ॥ यावद्भवति सान्द्रलं विध्वस्तसुमनारजः ॥ ६७॥ किंच यद्वारिणि क्षिप्तं प्लवते राजहंसवत् ॥ तुलितं दृश्यते स्तोकं तत्प्रशंसन्ति साधवः ॥ ६८॥ उक्तैः पुटौषधैरेव मन्यन्ते भावनाक्रमम् ॥ अन्ये तु द्वयमिच्छन्ति प्राक्पुटं भावनां ततः॥६९॥
विधिवत्सेवितलोहगुणाः । इति विविधविधानयुक्तिसिद्धं
विधिवदयः सततं निषेव्यमाणम् ॥ इदमसुरशरीरसम्भवखादसुरबलं मनुजं करोति नूनम् ॥ ७० ॥
इति लोहासिद्धिः॥ अभ्रकोत्पत्तिः । इति संसाधिते लोहे साधयेत्कृष्णमभ्रकम् ॥ यथा तथा विधि वक्ष्ये नानागमविलोकितम् ॥७१॥ पुरा वधाय वृत्रस्य वज्रिणा वजमुज्झितम् ॥ विस्फुलिङ्गास्ततस्तस्य गगनं परिसर्पतः ॥७२॥ निपेतुर्मेघनिर्घोषाः शिखरेषु महीभृताम् ।। तेभ्य एव समुत्पन्नं तत्तगिरिषु चाभ्रकम् ।। ७३ ॥ तद्वजं वज्रजातलादभ्रमभ्ररयो(वो)द्भवात् ॥ गगनच्युतिजातलाद्रुचिरे गगनं सुराः ॥ ७४ ॥
__अभ्रकमेदाः तेषां लक्षणानि च । विप्रक्षत्रियविशूद्रजातिभेदाचतुर्विधम् ॥ क्रमेणैव सितं रक्तं पीतं कृष्णं च वर्णतः ॥ ७५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com