Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
रसपद्धतिः ।
,
टी० - पिण्डस्त्विति । पिण्डः स्वरूपं, तत् चेल्लघु तदा उत्तमं समं चेन्मध्यमं, गुरु चेन्मौल्यमल्पमेव । तथा तरतमादिभेदेन त्रेधा लाघवं त्रेधा गौरवं, षोढा समं, एवं द्वादशधा मौल्यं सामान्यतो ज्ञेयम् । तदेवोदाहरणत्वेन योजयतिपिण्डस्तण्डुलसंमित इत्यादि । तण्डुलेन मितः यववत्स्थूलः, तत्राप्यच्छत्वादिगुणसंपन्नः, एवं क्रमं ज्ञात्वा निष्कं सुवर्ण मौल्यमादिशेत् । त्रैराशिकं प्रतिपादयति- पिण्डो यस्येति यस्य यवद्वयतुल्यः पिण्डस्तण्डुलपरिमित एव चेत्तदा चतुर्निष्का आदेशनीयाः । पिण्डश्चेदित्यादि । पिण्डश्चेत्रिचतुःपञ्चयवतुल्यस्तण्डुलमितः तदाऽष्टौ निष्काः षोडश निष्काः, एवं द्विर्द्विर्वर्धितं द्वात्रिंशच्चतुःषष्टिरित्यादिक्रमेण वर्धितमादिशेत् यद्वृद्धत्वे तु यवोपमः पुनस्तत्पादतो मानवान्पादेन तण्डुलमितस्तदा अष्टाविंशतिमिर्विवर्धितं मौल्यं मणिः प्राप्नोति । यदा पिण्डे सप्तयवोपमस्तण्डुलमितो वज्रो वारितरत्वादिगुणसंपन्नो निर्दोषश्चेत्तदा सहस्रद्वयं मौल्यं प्राप्नोति । इदानीं हीनतायां मौल्यमाह - स्याच्चेदिति । सपादयवस्तत्तुल्यतायां गुरुतायां सपादतण्डुलस्तदाऽस्य मणेः मौल्यं क्षीत । एवं सपादयवपरिमित स्तण्डुलद्वयपरिमितश्चेत्तदा इतोऽपि मौल्यं हीनमादिशेत् । इति क्षये क्रमो ज्ञातव्यः । उपसंहारव्याजेनाह - इत्थं युक्तिबलादिति । चतुरः क्रयक्रियाविचारे कुशलः, वज्रवर्ष्मणि वज्रदेहे, अर्घस्य मौल्यस्य, क्षयं कल्पयेत् । असति दोषे वृद्धिः, सति दोषे क्षयः । तथा गुणिनो यावन्मौल्यं स्यात्, ततः अगुणिनः वृद्धेश्वतस्रः कलाश्छेत्तव्याः । तत्र देशकालद्रव्यात्मषु यदा कुशलं स्यात्तदा गुणः, अन्यथा दोष इति ॥ १०६ ॥ १११ ॥
तत्र मौल्यप्रयोक्तुर्गुणानाह
७०
कर्मज्ञो लघुपाणिरर्थविमुखः शास्त्रप्रवीणो गुणी निःसंदिग्धमतिर्विदेशविधिविन्मौल्यप्रयोक्ता भवेत् ।
टी० कर्मज्ञ इति मौल्यं कर्तुं जानाति । लघुपाणिर्येन गृहीत्वा दत्तं गुणाय भवति सः | अर्थविमुखो मध्ये कापट्यं कृत्वा न स्थितः । गुणी ऊहापोहविचारचतुरः । निःसंदिग्धमतिरनेकरत्नग्रहणजातमतिः । विदेशविधिवित् देशान्तरस्थभाषामौल्यादिज्ञः । एवं प्रयोक्ता रत्नविक्रेता भवेत् । -
तत्राज्ञानिनो मौल्यप्रयोग दोषमाह---
अज्ञानादविचार्य मौल्यमधमः कुर्यान्मणेः कुत्सितं
कुष्ठी सोत्र भवेदमुत्र स पुनर्गच्छेन्महारौरवम् ॥ ११२ ॥ टी० वं अज्ञानादिति । अमुत्र परलोके महारौरवं नरकम् ॥ ११२ ॥ मुद्रादौ पविन्यास प्रकार माह
यत्स्यादङ्गममुष्य निम्नमुदितं सद्भिः शिरस्तत्पवेविस्तीर्ण तु तलं ततः स शिरसा योज्योऽङ्गुलीयादिषु ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144