Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
रसपद्धतिः।
सूतं गन्धकलोहमभ्रकनकं ताप्यं च तानं मृतं वङ्गं मौक्तिकविद्रुमं विमलकं कान्तं च नागं समम् । वाराहीद्रवभावितं मुनिदिनं कूप्यां न्यसेन्मुद्रितं पाच्यं वालुकया सुपूर्णपिठरे घस्रं सुशीतं पुनः ॥ २१९॥ कस्तूरीघनसारकुङ्कुमरसैः श्रीखण्डलामजकैरम्लानस्य रसेन भावितमिदं त्रित्रिः सुसिद्धो रसः । नाम्ना राजवसन्त एष कथितः पित्तामयिभ्यो हितः क्षीणानां क्षतकासिनां मधुसितायुक्तो द्विवल्लोऽशितः २२०
इति वसन्तराजः । कान्तं तीक्ष्णकमभ्रसत्त्वकनकं तानं च ताराहिक वङ्गं विद्रुममौक्तिकं समतुलं सर्वैस्तु सूतः समः । क्षौद्रेण त्रिविमर्दितं तदखिलं क्षिप्त्वा तु मूषान्तरे पाच्यं तायपुटे सुशीतलमिदं वह्निद्रवैः सप्तधा ॥२२१॥ नारायण्यमृताश्वदंष्ट्रकवलागुप्तोच्चटागोस्तनीद्रावैः शाल्मलिपाटलीमुशलिकाकाण्डेक्षुकूष्माण्डजैः । पथ्योदुम्बरकाद्रसैमुनिमितं मर्यः सुखल्वे धिया त्वेषः कुङ्कुमचन्दनादिजनितैरद्भिश्च भृङ्गयुद्भवैः ॥ २२२ ॥ वल्लद्वन्द्वमितो रसायनवरो वृष्यः क्षयध्वंसनो मेहादेर्दलनो रसश्च स महालक्ष्मीविलासाभिधः ।
व इति महालक्ष्मीविलासः । सिन्दूरं रसपूर्वकं च विमलं कान्तं धनं गन्धकं तुल्यं पारदपादिकं सुकनकं तारं मृतं तत्पुनः । मर्थ भूसितया वृषेण वरया वर्या विदार्या ततः कन्याशाल्मलिगोक्षुरेण सितया ताल्याऽश्वया सप्तधा।।२२३
१ 'द्विवलोन्मितः' इति पा०।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144