Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 109
________________ रसपद्धतिः । तत्पत्रैः परिवेष्ट्य तण्डुलभवे राशौ तथा पुष्पजे न्यस्तं सप्तदिनं ततो मृगमदैर्लक्ष्मीविलासामिधः । मेहध्वान्तहरः क्षयप्रशमनो वल्लत्रयं सेवितस्तत्तद्योगवरैः सितामधुघृतैर्मासं नियच्छेज्वरान् ॥ २२४ ॥ इति लक्ष्मीविलासः । श्वेताङ्कोल्लरसेन पारदपलं संमर्ध सप्ताहत - स्तत्तुल्यं कनकं तयोः समतुलं गन्धं विशुद्धं पुनः । मर्चं श्वेतहयारिरक्तदहनैस्तालीरसैः सप्तधा गोलं छागलमांसवेष्टितमथो माषैः प्रपिष्टैस्तथा ॥ २२५ ॥ तप्ते तैलघृतेऽथवा विनिहितं सिन्दूरतुल्यं यदा जातं तत्क्षणमुद्धरेन्मधुसितासर्पिर्युतं क्षीरपः । भोज्यं लड्डुकपायसं ह्यनुदिनं सेवेत वन्ध्यां स्त्रियं भोगान् सर्वऋतूद्भवान् सकुसुमान् कन्दर्पकेलीप्रियान् २२६ इति कामदेवरसः । ९७ सूतं गन्धकसंमितं त्रिकटुकक्काथेन संमिश्रितं गोलं क्षीरविदारिकन्दविवरे न्यस्तं प्रलिप्तं पुनः । माषैर्लिप्तमथोऽङ्गुलेन तुलितं गव्ये घृते पाचितं तच्चूर्ण पलसंमितं द्विपलकं सच्चं गुडूच्याः पुनः ॥ २२७ ॥ द्राक्षा कच्छुफलं तिला वरिजये प्रत्येककं पालिकं मोचाया द्विपलं यवाः शरपला यष्टी द्विमुष्टिः शुभा । कृष्णाधात्रिवलात्रेयेक्षुरभवैर्गे कण्टकैर्भावये त्सर्वं सप्तदिनं निवेश्य विमले पात्रे सितामिश्रितम् ॥२२८॥ माषद्वन्द्वमितं भजेन्निशि घृतं दुग्धं यथेष्टं पिबेदृष्येग्राम्यकलिङ्गवच्च जयति श्रीकामदेवो रसः । इति कामदेवोऽपरः । १ 'विमले' इति पा० । २ ० त्रयेक्षुकदलीकन्दैः क्रमाद्भावयेत्' इति पा० । रस० ९ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144