Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
रसपद्धतिः ।
सप्ताहं परिमर्दितं दहनजैः काथैस्तथाऽद्भवक्षीरैस्तद्दिवसत्रयं प्रमृदितं न्यस्तं कपर्दीषु च । रुद्धा भाण्डतले मृदा सुवसनैः संछाद्य शुष्कं पुनः संध्यायां खलु तीव्रकुञ्जरपुटे पकं सुशीतं पुनः ॥ २१३ ॥ ग्राह्यं सर्वमिदं विचूर्ण्य तुलितं सिन्दूरनाम्ना पुनः मृतेनापि विकृन्तपादमिलितं मद्ये दृढं तद्दिनम् । शिग्रुद्रावविमर्दितं मुनिदिनं त्रिः सप्तधा भावितं मूलैश्वित्रकजैस्तथाऽऽर्द्रकरसैर्जम्बीरजैर्तुङ्गजैः || २१४ ॥ शुष्कं चूर्णितपादटङ्कमिलितं सौभाग्यपादं विषं तत्तुल्यं मरिचं लवङ्गचपलापथ्यार्द्रकं चामृतात् । प्रत्येकं सुमनः फलं त्वथ चतुर्थांशं पुनर्मर्दितं जम्बीरेण तथाऽऽर्द्धकेण च तथा लुङ्गाम्भसा सप्तधा ॥ २१५ द्वन्द्वमितं पुनर्मधुकणासंमिश्रितं सेवितं दुर्नामक्षय पाण्डुका सशमनं मेहाग्निमान्धप्रणुत् । कुष्ठापस्मृतितापकृच्छ्रभगरुक्लीहोदरं विद्रधि साध्यासाध्य गदान्निहन्ति स रसस्त्रैलोक्यचिन्तामणिः २१६ इति त्रैलोक्यचिन्तामणिः ।
९५
स्वर्ण भागमितं द्विभागममलं रूप्यं त्रिभागं पुननगं वङ्गमयोरजोऽभ्रभसितं मुक्ताप्रवालं रसम् । शुद्धं भागचतुष्टयं सुमृदितं भाव्यं पुनः पौंड्रकैः श्रीवासाजलरात्रिशाल्मलिभवैद्रवैः पृथक्सप्तधा ।। २१७ ॥ मालत्याः कुसुमैस्तथा मृगमदैर म्लानपुष्पोद्भवै रम्भाकुङ्कुमजैः पुनर्विलुलितः सिद्धो वसन्ताभिधः । चलद्वन्द्वमितो रसायनवरः शुक्रायुषोर्वर्धनः स्त्रीपुंसोः क्षयकासबीजजनितं दोषं नियच्छेत्परम् ॥२१८॥
इति वसन्तकुसुमाकरः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144