Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 106
________________ रसपद्धतिः । रुक्मं तीक्ष्णं च कान्तं रजतरसभवं भस्म वङ्गाहितुल्यं मुक्ता सर्वैः समाना द्विगुणमथ रसाद्गन्धकं टङ्कणं च । पादांशं सर्वमेतत्तुषभवमृदितं पूर्ववद्यत्रपकं । वाङ्गं शीतं मृगाकं मृगमदतुलितं यक्ष्मरोगे प्रशस्तम् २०७ इति मुक्तामृगाङ्कः ।। माक्षीकद्वितयं सुवर्णरसकं गन्धं सतारं पृथग्भागं विद्रुमताम्रशुक्तिजपवेद्वैभागमेकैकशः। वङ्गायोभ्रककांस्यपारदफणीन् वैक्रान्तकान्तं पुनस्त्रिर्मयं तु वरात्रिजातदहनैर्मुस्तामृतायष्टिभिः ॥ २०८ ।। सिंहास्यामुशलीविदारिकदलीगोकण्टकोशीरकैनारायण्यमृताशटीकरिकणाशुण्ठीकुमारीद्रवैः। गोदुग्धैर्मुशलीावारिवारिमृदितं गोलं पचेद्यामक मन्दाग्नौ च मृगावत्परमसौ भाव्यस्ततो भावनैः ॥२०९।। द्वे कस्तूर्यास्तु मृगाङ्कवन्मधुकणायुक्ता स्वगुञ्जा जयेन्मेहा ग्रहणीगदोदरमरुधाधिज्वरान् कामलाम् । पाण्डु कुष्ठभगन्दरं बहुरुज मूत्रं च शुक्रक्षयम् ॥ २१० ॥ इति सर्वेश्वरः। सूतायोऽभ्रकगन्धकं समलवं सूताङ्कितुल्यं मृतं स्वर्ण सर्वमिदं निधाय विमले खल्वे दिनं मर्दयेत् । कन्याव्योषवरापुनर्नवरसैः कच्छूलवङ्गैः पुनभोव्यं चित्रकपत्रकैर्घनतरं संवेष्ट्य धान्यान्तगम् ॥२११॥ कुर्याद्ब्रह्मविनिर्मितं रसवरं यक्ष्मापहं पुष्टिदं वल्लं क्षौद्रफलत्रयेण सहितं मेहानिमान्द्यप्रणुत् । इति चतुर्मुखः । वर्त्रेहेमरसाभ्रताम्ररजतैलॊहैम॒तैर्गन्धकैः शङ्कविद्रुममौक्तिकैश्च शिलया तालेन शुद्धैः पुनः ॥२१२॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144