Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
रसपद्धतिः। स्वर्ण रौप्यं रविगगनकं लोहसूतं समांश मुक्ताभागं विमलबलिकं पारदाधुग्मभागम् । मर्य कन्दैः कदलिजनकैः शाल्मलीनां रसैर्वा कन्याद्रावैर्मुनिदिनमथो वल्लयुग्मं निहन्यात् ॥ मेहं तापं मधुचपलया सेवितो मासमात्रं स्त्रीणां रोगानशेषानपहरति पुनः पर्पटी काञ्चनीयम् १९६
इति सुवर्णपर्पटी। स्वर्ण वैक्रान्तसूतं समलवममलं गन्धकं शुक्तिकोत्थं युग्मांशं पादभागं कुलिशभसितकं टङ्कणं सर्वतुल्यम् ॥१९७॥ जम्बीरैर्मातुलिङ्गैस्त्रिदिवसमसकृद्भावितं शुष्कगोलं मृद्वस्त्रैर्वेष्टयित्वा तदनु सुविमले किट्टमध्ये निवेश्य । भाण्डे मृलिप्तसंधौ मृदुतरशिखिना पाचितं वेदयामं वाङ्गं शीतं गृहीत्वा मृगमदसलिलैर्भावयेवित्रिवारान् १९८ सिद्धो राजमृगाङ्क एष मधुना कृष्णायुतेन क्षयान् कासं पञ्चविधं क्षयं क्षतरुजं जीर्णज्वरं धातुगम् । हन्यान्मेहरुजामकालपलितं कान्ति च वीयं दृढं कुर्याद्वैद्यवरेण चन्द्रशिखरेणोक्तो विमृश्याखिलम् ।।१९९ ॥
इति मुक्ताराजमृगाङ्कः । हेम्नो भस रसेन तुल्यतुलितं मुक्तां विशुद्धां ततो द्विभागां समगन्धकं तु सकलात् पादेन टङ्केन च । संमर्च खलु काञ्जिकेन सकलं शुष्कं तु गोलं पचेद्भाण्डे सैन्धवपूरिते तु शिखिना शीतं ततश्चूर्णयेत् ॥२०॥ भाव्यं रङ्कुमदेन वल्लतुलितं तापेऽग्निमान्द्ये क्षये कासे श्वासयुते मृगाङ्कमलघु खादेत्कणाक्षौद्रभुक् ।
इति महामृगाङ्कः । १ 'माससंसेवितेयं' इति पा० ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144