SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ रसपद्धतिः। स्वर्ण रौप्यं रविगगनकं लोहसूतं समांश मुक्ताभागं विमलबलिकं पारदाधुग्मभागम् । मर्य कन्दैः कदलिजनकैः शाल्मलीनां रसैर्वा कन्याद्रावैर्मुनिदिनमथो वल्लयुग्मं निहन्यात् ॥ मेहं तापं मधुचपलया सेवितो मासमात्रं स्त्रीणां रोगानशेषानपहरति पुनः पर्पटी काञ्चनीयम् १९६ इति सुवर्णपर्पटी। स्वर्ण वैक्रान्तसूतं समलवममलं गन्धकं शुक्तिकोत्थं युग्मांशं पादभागं कुलिशभसितकं टङ्कणं सर्वतुल्यम् ॥१९७॥ जम्बीरैर्मातुलिङ्गैस्त्रिदिवसमसकृद्भावितं शुष्कगोलं मृद्वस्त्रैर्वेष्टयित्वा तदनु सुविमले किट्टमध्ये निवेश्य । भाण्डे मृलिप्तसंधौ मृदुतरशिखिना पाचितं वेदयामं वाङ्गं शीतं गृहीत्वा मृगमदसलिलैर्भावयेवित्रिवारान् १९८ सिद्धो राजमृगाङ्क एष मधुना कृष्णायुतेन क्षयान् कासं पञ्चविधं क्षयं क्षतरुजं जीर्णज्वरं धातुगम् । हन्यान्मेहरुजामकालपलितं कान्ति च वीयं दृढं कुर्याद्वैद्यवरेण चन्द्रशिखरेणोक्तो विमृश्याखिलम् ।।१९९ ॥ इति मुक्ताराजमृगाङ्कः । हेम्नो भस रसेन तुल्यतुलितं मुक्तां विशुद्धां ततो द्विभागां समगन्धकं तु सकलात् पादेन टङ्केन च । संमर्च खलु काञ्जिकेन सकलं शुष्कं तु गोलं पचेद्भाण्डे सैन्धवपूरिते तु शिखिना शीतं ततश्चूर्णयेत् ॥२०॥ भाव्यं रङ्कुमदेन वल्लतुलितं तापेऽग्निमान्द्ये क्षये कासे श्वासयुते मृगाङ्कमलघु खादेत्कणाक्षौद्रभुक् । इति महामृगाङ्कः । १ 'माससंसेवितेयं' इति पा० । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy