________________
रसपद्धतिः ।
भाव्यं जम्भरसेन च त्रिदिवसं निःस्नेहमेतद्धिया गुञ्जाद्वन्द्वममुष्य मालिनिवसन्तस्य ज्वरे धातुगे । अद्याद्रक्तभवे गदेऽप्यतिकृशे क्षीणे च बाले क्षये वृद्धे गर्भिणिसूतिकासु मधुना क्षीरानभ्रुक्स्वेच्छया ॥ १८९ ॥
इति मालिनीवसन्तः । चपलायाः प्रस्थमेकं सुहीक्षीरेण भावयेत् । एकविंशतिधा पूर्वं तदर्ध मलमायसम् ॥ १९० ॥ तदर्ध दरदं क्षात्रयमेकत्र भावयेत् । गोजिह्वाशाल्मलीक्षीर गोक्षुरेक्षुरसैः पृथक् ॥ १९९ ॥ श्लक्ष्णचूर्ण पुनः कृत्वा मात्रां युञ्ज्याद्यथाबलम् । क्षीरं जातु पिवेत्तस्य मधुकेन समायुतम् ॥। १९२ ॥ सुधापिप्पली योगोऽयं जीर्णज्वरमपोहति । मेदोदोषोदरं शोथक्षयक्षयकरः परः ॥ क्षीणान्धातून्वर्धयति प्रोक्तश्वात्रेयसूरिणा ।। ९९३ ॥
इति सुधापिप्पलीयोगः ।
९.१.
भागैकं वल्लिजातं द्वितयमथ नृणां खर्परान्मूत्रशुद्धात् सर्व खल्वे विम त्रिदिनमपि गवां कालसेयोद्भवेन । जम्बीरैः शुष्कचूर्ण यदवधि तु भवेन्मालिनीप्राग्वसन्तः १९४ इति लघुमालिनीवसन्तः ।
सूतायोभ्रकताम्र भस्ममखिलं तुल्यं ततो गन्धकं द्विर्भागं पलिकीकृतं कलिकापत्रे तु संस्थापितम् । माषद्वन्द्वमितां तथा मधुकणायुक्तां पुनः पर्प दद्याद्धातुगते ज्वरे तिसृतौ नाम्ना तु पञ्चामृताम् ॥ कासश्वास गुदाङ्कुरग्रहणिकायक्ष्मामये सद्गुणाम् ॥ १९५ ॥
इति पञ्चामृतपर्पटी |
१ घृताक्तायां दर्विकायां संस्थापितामित्यर्थः । २ 'कदलिकापत्रेण संछादिताम्' इति पा० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com