________________
९०
रसपद्धतिः ।
रसेन मत्स्यपित्तेन वा भावितः, ज्वरारिनामा रसो भवति; आर्द्रकरसेन उष्णपूर्वकं नवज्वरं हन्यात्, जीर्णज्वरे पिप्पलीमधुभ्यां सह देयः ॥ १८४ ॥ अथ शीतज्वरारिमाह
कम्बुः फेनमहेः शिला सरसकं माक्षीकमेकांशकं शुल्वं सोमलमक्षिभागमखिलं त्रिः कारवल्लीरसैः । आर्द्रीकृत्य कृतः सुकृष्णलमितः शीतज्वरारिः सितामिश्रो हन्ति सुदुग्धभक्तकभुजस्तूष्णान् सशीतज्वरान् १८५ टी० – शङ्खः, अहिफेनं, मनःशिला, रसकः कलखापरी, माक्षीकं सुवर्णमाक्षीकं, प्रत्येकमेकभागं, शुल्बं ताम्र, सोमलं, अक्षिभागं द्विभागं; कारवलीरसैर्भावयिला, गुआ मात्रा वटी कार्या, अयं सितया सह शीतोष्णपूर्वका उवरान् सचातुर्थिकानपि नाशयति ॥ १८५ ॥
अथ ज्वररिपुमाह
रसस्यैकं भागं दरदझषपित्तामृतवलीन् द्विभागान् सौभाग्यं त्रिरथ मरिचं वेदतुलितम् । विमर्धाद्रावैज्र्वरमुररिपुश्चेद्विरचितः किमन्यैरेकद्वित्रिचतुरहजातज्वररिपुः ॥
जडियाद्रावैः ससितजरणाम्भोभिरपरैतिसृत्यां युक्तः सुरसदलवार्भिः समरिचैः ।। १८६ ॥ टी० -- मत्स्य पित्तं शुष्कम् । वेदतुलितं चतुर्भागं, अन्यै रसैः, जडिन्नि शैत्ये, तुलसीखरसैर्देयः ॥ १८६॥
अथ चातुर्थिभाङ्कुशमाह -
रसं गन्धकं निर्विपा वत्सनाभं द्वयं तुत्थतो गौरिपाषाणतालम् । विमर्द्यापि गोलीकृतोऽयं रसेन्द्रो महापूर्विकाया बलाया रसेन रसैर्धर्तकस्यापि शीताङ्कुशोऽयं सखण्डस्तु चातुर्थिकेभाङ्कुशोऽयम् रसं गन्धकं निर्विषा तुत्थयुग्मं शिलातालकं नागपाषाणयुक्तम् ॥ शितिवर्णभङ्गा सहादेवनीरैः कलायप्रमाणस्तथैवायमुक्तः । शुद्धं खर्परमष्टभागममलं स्वर्ण च मुक्ताफलं हिङ्गलं मरिचं विवर्धितमिदं हैयङ्गवीनेन च ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com