________________
रसपद्धतिः । घ्रातं यच्च नसा नरेण कुरुते यत्संख्यया संख्यया तावन्त्येव विरेकमद्भुतकरं नृणां विबन्धापहम् ॥ १८१ ॥ टी०-गन्धकः पतिलवो दशभागः, पारदो दशभागः, टङ्कणो दशभागः, श्वेताकोल्लबीजं दन्तीबीजं विंशतिभागं प्रत्येकम् । विरेकः उभयमार्गेण; कण्ठे लिप्तं वान्तिकरं, नाभौ लिप्तं विरेकजनकम् । नासिकया यावद्वारमाघ्रातं तैलं तावद्वार विरेकजनकं; अत एवाद्भुतम् । इदं च प्रसङ्गत उक्तम् ॥१८०॥१८१॥ .. अथ कालानलरसमाह
सूतं वङ्गमपकमेव कनकाबीजं च नागं समं वखध करहाटमर्कमपि तत्संख्यं तथैवामृतम् । वस्त्रंशं गरलं च शुल्बमथवा संमर्दयेदेकतो निर्गुण्डीसलिलेन तत्खलु रसः स्यानाम कालानलः॥१८२॥ पीतो जीरकवारिणाऽयमखिलान्मुद्गप्रमाणो ज्वरान्सद्यो हन्ति, टी०-पारदः, वङ्गभस्म, अपक्कधत्तूरबीजं, नागभस्म, समं टङ्कटङ्कपरिमितं, करहाटः आकारकरभः, अर्क ताम्रभस्म, वस्वध भागचतुष्टयं प्रत्येकं, विषं भागचतुष्टयं अथवा वस्वंशं अष्टभागं निर्गुण्डीरसेन त्रिर्भावयेत् , जीरकवारिणा पीतं सर्वान्रोगान् कालानलाख्यो मुद्नमात्रः हन्ति ॥ १८२ ॥
तथैव निर्विषविषश्रेष्ठात्रितीक्ष्णेश्वरैः । वैगन्धालकटङ्कणाजयफलैर्भृङ्गाम्भसा वासितैः सिद्धोऽश्वानलनामको विजयते विश्वाजलेन ज्वरान् ॥१८३॥ टी०–एवमेव निर्विषा निर्विषी, श्रेष्ठा त्रिफला, त्रितीक्ष्णं व्योष, ईश्वरः पारदः, वैगन्धः गन्धकः, अलकः हरितालः, टङ्कणं, अजयफलं जेपालबीजं, भृङ्गराजरसेन भाक्तिमाईकरसेन च घोडाचोलीति ख्यातः ॥ १८३ ॥ हिङ्गलोद्भवताम्रगन्धगगनम्लेच्छान् क्रमाद्वर्धितान् कारव्याः स्वरसेन मीनजनुषा पित्तेन वा सप्तशः। आप्लाव्याऽऽरचितो ज्वरानतिचिरादुष्णज्वरं नूतनं हन्यादाकवारिणा सचपलाक्षौद्रो द्विवल्लः परम् ॥१८४ ।। टी०-गगनमभ्रक, म्लेच्छं हिड्डुलः, वर्धितानेकस्मादेकं द्विगुणितं, कारवी
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com