SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ८८ रसपद्धतिः ः । वह्नेर्मूलरसैस्त्रिधाऽपि शफरीपित्तेन संप्लावितं यन्त्रे शार्करिले दिनार्धमखिलं तत्का चक्कूप्यां पचेत् ॥ १७७॥ पाकान्ते तु निकुम्भबीजशकलादष्टाभिरंशैर्युतं तत्सूक्ष्मीकृतमेकतः खलु रसः सिद्धो ऽर्धनारीश्वरः । यत्पार्श्वस्तनजेन चाजपयसा वलैकमात्रोशितस्वत्पार्श्वज्वरमाशु हन्त्युभयतः सर्वाङ्गजं च ज्वरम् ॥ १७८ ॥ टी० - तीक्ष्णं लोहभस्म, दारदो वत्सनाभः, दारदः पारदः, ताम्रं हिङ्गुलः, गन्धकः, माक्षिकः, अब्धयश्चत्वारः, ऋतवः षद, शरः पञ्च व्युत्क्रमाद्गुणितं सप्तभागो माक्षिक इत्यादि; चित्रकमूलरसैः मत्स्यपित्तेन रसं भावितं वालुकायन्त्रे यामद्वयं पचेत्; जेपालाष्टभागैर्युतमेकतः मर्दितं; अजायाः यत्पार्श्वस्तनभवेन दुग्धेन पीतस्तत्पार्श्वस्थं ज्वरं हन्ति, अयञ्च प्रभावः, उभयस्तनजेन दुग्धेन पीतस्सर्वाङ्गजं ज्वरं हन्ति ॥ १७७ ॥ १७८ ॥ अथ कुष्ठादिव टिकामाह रुक्सूतामृतगन्धक त्रिकटुकश्रेष्ठा भिरेकांशतस्त्रिभृङ्गस्य रसैर्विभाव्य रचिता मुद्द्रप्रमाणा वटी । हन्यादग्निविबन्धशूलमुदरं तद्वत्समांशैर्वराशुण्ठीजीरकवत्सनाभमरिचोग्राकजली हिङ्गुभिः ।। १७९ ॥ टी० - कुष्टादिवटी वरादिवटी च । कुष्ठं, अमृतं विषं श्रेष्ठा त्रिफला, समभागैः, कजली पारदगन्धकयोः । तद्वत्प्रागुक्तान् हन्यात् । इयमग्निमान्द्यप्रभृतिषु वटी ॥ १७९ ॥ चिन्तामणितैलमाह गन्धः पङ्किलवोऽमुना समलवः स्यात्पारदष्टङ्कणः श्वेताङ्कोल्लनिकुम्भयोर्द्विगुणितं बीजं च दन्त्यम्बुना । तत्सर्वं परिमर्द्य वासरयुगं छायाविशुष्कं चिरात्स्याच्चिन्तामणिनामधेयमतुलं तैलं विरेकार्थकम् ॥ १८० ॥ लिप्तं किमपि क्षणेन बहुशः कण्ठे ऽथ वा वामये • नाभौ वा नितरां विलिप्तमसकृत्सद्यो नरं रेचयेत् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy