________________
रसपद्धतिः ।
गुञ्जाsस्याकवारिणा ससिकतेनान्येन वा केनचिear शैत्यककासपश्ञ्चविषमानन्यांश्व रोगाञ्जयेत् ॥ १७४ ॥ टी० - पारदः, कुनटी मनः शिला, अहिर्नागभस्म, प्रत्येकमेतत्पादिकं चतुर्थभागं, तापीजं माक्षिकं त्रपु वङ्गभस्म; मातुलानी भङ्गा, तद्रसेन त्रिर्भावयेत्, कृष्णधत्तूरादपि मृत्तिकामूषामध्ये पचेत् । ततः पारदमानं विषं दत्त्वा मत्स्याक्षी ब्रह्ममण्डूकी, तद्रसैः त्रिकटुकरसैश्च भावयेत् । ताभ्यां मत्स्याक्षीत्रिकटुकाभ्यां रसमानेन विषेण च डमरुकाख्ययन्त्रे ऊर्ध्वलेपेन धूपयेत् । अयमेकसूतेश्वरो नाम रसः, सिकता शर्करा, तुलसीरसेन ताम्बूलरसेन वा सह दत्ता गुञ्जा, अन्याञ्ज्वरोपद्रवादीञ्जयेत् । पाकस्तु भूधरयन्त्रेण ॥ १७३ ॥ १७४ ॥
अथ शीतारिमाह
सूतं गन्धकमर्कसोमलयुतं चेतः शिला खर्परं तालः साधुसुधेति कारविरसैः संमर्दितं सप्तधा । मूषापाचितमष्टमांशमिलितं हैयङ्गवीनेन तदीप्यत्र्यूषण तुर्य भागघटितं मत्स्याजपित्तप्लुतम् ।। १७५ ।। प्रत्येकं मुनिभिः सशर्करमिदं दुग्धेन वल्लैक कं पीतं शीतं पुरःसराञ्जयति तत्सर्वज्वरान्पश्यतः ।
८७
टी० - पारदः, गन्धकः, ताम्र, सोमलः, मनःशिला, खर्परं, हरितालं, साधुसुधा विषं, कारवल्लीरसैः संमर्दितं, भूधरे मूषापाचितं, नवनीतेन मिलितं; दीप्यो अजमोदा, त्र्यूषणं त्रिकटु, तुर्यभागः चतुर्थभागस्तेन घटितम् । मत्स्यपित्तेनाजपित्तेन भावितं सप्तवारं, सशर्करं वल्लैककं दुग्धेन सर्वशीतज्वराञ्जयति, दुग्धोदनाशिनः ॥ १७५ ॥ -
अथ ज्वरान्तकमाह
सूतम्लेच्छवियद्धलीञ्शशिचतुस्त्रिद्विः सुषव्या रसैः पित्तैर्मत्स्यभवैर्विभाव्य विहितः प्राग्वज्वरान्तो रसः ॥ १७६ ॥ टी० - पारदः, हिङ्गुलः, अभ्रकं, गन्धकः, क्रमेण एकचतुस्त्रिद्विभागाः, सुषवी कारविका, तस्या रसैः सप्तधा भावितः, प्राग्वदेकाहिकान् जयति ॥ १७६ ॥ अर्धनारीश्वररसमाह
तीक्ष्णं दारददारदार्कदरदं लेलीतकं माक्षिकं अब्ध्येकर्तुशरद्विसप्तगुणितं तद्युत्क्रमान्मर्दितम् ।
१ 'भक्तपयोर्भुजो विजयते द्राक् सर्वशीतज्वरान्' इति पा० ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com