SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ रसपद्धतिः । महाज्वराङ्कुशमाहसूतेन्द्रामृतगन्धकात्समलवाद्धत्तूरबीजं पुनस्तुल्यं तैः सकलैः समं त्रिकटुकं स्तोमं सद्भावितम् ॥१७०॥ जम्बीरास्थिरसैर्विमर्थ विहितं प्राग्वनिपीयाकद्रावैः शार्करिलैनवज्वरसणिं सर्वज्वरान्मुच्यते । टी०-पारदः, विषं, गन्धकः, एतान् समभागान् ; तैस्तुल्यं धत्तूरबीजं, षड्भागं व्योषं, एतज्जम्बीरबीजरसैरेकवारं विभावितं, गुञ्जाद्वयमितमाईकरसेन सशर्करेण पीत्वा सर्वज्वरान्मुक्तो भवति । अयं नवज्वरमृणिः नवज्वराङ्कुशो ज्ञेयः ॥१७० ॥ अथ सूतेशमाहसूताभ्रायसभूतिगन्धगरलम्लेच्छात्सवैक्रान्तकात्रिनिर्मार्कवशिवह्निसरलातकाकाम्भाप्लुतात् ॥ १७१ ॥ श्लक्ष्णीकृत्य विलिप्य भाण्डकुहरे प्रामानहालाहलो निर्यमविधूपितो रसवरो निष्काश्य निर्मापितः । सूतेशः सुरसारसेन रसितो गुञ्जाद्वयीतोलितो हन्यादष्टविधाज्वरांश्च विषमाञ्छीतोष्णसाधारणान्॥१७२॥ टी०-पारदः, अभ्रक, लोहभस्म, गन्धकः, विषं, म्लेच्छं ताम्रभस्म, वैक्रान्तभस्म, समभागानेतान् ; भृङ्गराजः, शोभाञ्जनः, चित्रकः, सरला त्रिवृत् , आतङ्कः कुष्टं, आर्द्र शृङ्गबेरं, एतद्रसैः त्रिवारं भावितान् । एतान् श्लक्ष्णीकृत्य कोमलीकृत्य, भाण्डमध्ये लेपयित्वा, एकौषधसमभागविषान् , निर्यनिर्गच्छद्यः धूमः तेन धूपितान् एतान् , भाण्डान्निष्काश्य रचितः सूतेशो नाम भवति । स गुजाद्वयमितः, तुलसीरसेन भक्षितः, वातादिजाञ्छीतोष्णसाधारणाध्वरान् हन्यात् ॥ १७१ ॥ १७२ ॥ एकसूतेश्वररसमाहसूतात्पादिकमभ्रगन्धकुनटीलोहाहितानं पृथक् तापीजत्रपुणी च भावितमिदं निर्मातुलान्या रसैः । कृष्णान्मातुलतोऽपि तत्किल मृदो मूषान्तराले पचेदन्ते पारदमानदारवयुतं तत्सप्तधा भावयेत् ॥ १७३ ॥ मत्स्याक्षीत्रिकटुवैरपि तथा ताभ्यां ततो धूपितं प्रामानेन विषेण सिद्धमहिमा स्यादेकसूतेश्वरः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy