________________
रसपद्धतिः।
टी०-हरीतकी, पारदः, ताम्रभस्म, गन्धकः, चपला पिप्पली, कटुकी, श्यामा, जेपालबीजं, त्रिकटु, वरास्थि विषतिन्दुबीजं, एतत्सर्वं स्नुहीक्षीरेण भावयित्वा कृतो रसः, मधुना रक्तिकातुल्यः पीतः, सद्यो नवज्वरं हन्ति । सुवर्णं यथा विषं हन्ति तथा रसोऽयम् ॥ १६६ ॥इदानीं पूर्वोक्तानां प्रभावात्सकलरोगघ्नत्वं वदति ।एते यद्यपि नूतनज्वरहरा ह्येवोपदिष्टा मया शस्यन्ते न चिरन्तनेष्वपि कथङ्कारं ज्वरेष्वाशिताः॥१६७॥ किन्तु स्वच्छतया विचार्य चतुरैर्मात्रानुपानैर्यथान्यायस्थैरथ ते स्वयुक्तिरचितैर्देया ज्वरिभ्यो नरैः । नासाध्येषु न सन्निपातिषु न वा वृद्धेषु वालेषु न प्रक्षीणेषु न गर्भिणीषु विषयासक्तातिसारिष्वपि ॥१६८ ॥ नातिक्षीणकृशेषु पेलवतनुस्खागन्तुकातङ्किषु प्रायश्चैष निषेधवाक्यनिवहः सौम्येषु योगेषु न । टी०-एते पूर्वोक्ता वक्ष्यमाणाश्च यद्यपि नवज्वरघ्ना एव उक्ताः, तथापि जीर्णज्वरेषु भक्षिताः न शस्यन्ते इति न; अपिपदादुदरादिष्वपि । परंतु स्वबुड्या विचार्य पण्डितैनरैर्यथोक्तैः स्वबुद्धिकल्पितैर्वा मात्रानुपानैः, एते रसादयः ज्वरपदादन्येष्वपि । तेष्वयं विशेष इत्याह-नेत्यादि । एष निषेधवाक्यदण्डः सौम्ययोगेषु विषादिरहितेषु नास्ति, ते रसा असाध्यादिषु देया इति भावः ॥ १६७ ॥ १६८ ॥
अथ स्वच्छन्दगोलाख्यं रसमाहपथ्यात्र्यूषणवह्रिमन्थसुरसाः शृङ्गी विषं टङ्कणं गन्धं तालकमाक्षिकायसरजः सूतो द्रवन्तीफलम् ॥१६९॥ निर्गुण्डीस्वरसेन भावितमिदं स्वच्छन्दगोलाभिधं
गुञ्जायुग्ममितं निहन्ति निखिलं शीतोष्णपूर्व ज्वरम् । टी०- हरीतकी, त्रिकटुकं, वह्निमन्थस्तर्कारीबीजं, निर्गुण्डीबीजं, शृङ्गी कर्कटशृङ्गी, विषं वत्सनाभं, टङ्कणक्षारः, गन्धकः, हरितालकः, वर्णमाक्षिकः, लोहभस्म, पारदः, जेपालः, एतनिर्गुण्डीस्वरसभावितं त्रिवार, स्वच्छन्दगोलाख्यं रसं जानीयात्। तद्गाद्वयमितं शीतादिपूर्वज्वरं निहन्ति, अग्निमान्द्यादीनपि हन्ति ॥१६९॥१ 'नातिस्थूलकृशेषु' इति पा० ।
रस० ८
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com