SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ रसपद्धतिः। सूतं गन्धकलोहमभ्रकनकं ताप्यं च तानं मृतं वङ्गं मौक्तिकविद्रुमं विमलकं कान्तं च नागं समम् । वाराहीद्रवभावितं मुनिदिनं कूप्यां न्यसेन्मुद्रितं पाच्यं वालुकया सुपूर्णपिठरे घस्रं सुशीतं पुनः ॥ २१९॥ कस्तूरीघनसारकुङ्कुमरसैः श्रीखण्डलामजकैरम्लानस्य रसेन भावितमिदं त्रित्रिः सुसिद्धो रसः । नाम्ना राजवसन्त एष कथितः पित्तामयिभ्यो हितः क्षीणानां क्षतकासिनां मधुसितायुक्तो द्विवल्लोऽशितः २२० इति वसन्तराजः । कान्तं तीक्ष्णकमभ्रसत्त्वकनकं तानं च ताराहिक वङ्गं विद्रुममौक्तिकं समतुलं सर्वैस्तु सूतः समः । क्षौद्रेण त्रिविमर्दितं तदखिलं क्षिप्त्वा तु मूषान्तरे पाच्यं तायपुटे सुशीतलमिदं वह्निद्रवैः सप्तधा ॥२२१॥ नारायण्यमृताश्वदंष्ट्रकवलागुप्तोच्चटागोस्तनीद्रावैः शाल्मलिपाटलीमुशलिकाकाण्डेक्षुकूष्माण्डजैः । पथ्योदुम्बरकाद्रसैमुनिमितं मर्यः सुखल्वे धिया त्वेषः कुङ्कुमचन्दनादिजनितैरद्भिश्च भृङ्गयुद्भवैः ॥ २२२ ॥ वल्लद्वन्द्वमितो रसायनवरो वृष्यः क्षयध्वंसनो मेहादेर्दलनो रसश्च स महालक्ष्मीविलासाभिधः । व इति महालक्ष्मीविलासः । सिन्दूरं रसपूर्वकं च विमलं कान्तं धनं गन्धकं तुल्यं पारदपादिकं सुकनकं तारं मृतं तत्पुनः । मर्थ भूसितया वृषेण वरया वर्या विदार्या ततः कन्याशाल्मलिगोक्षुरेण सितया ताल्याऽश्वया सप्तधा।।२२३ १ 'द्विवलोन्मितः' इति पा०। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy