Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
रसपद्धतिः । नव्यचन्द्राभिधामाहहृद्धात्री विषमीशवीजमरिचाङ्कोलोत्थबीजं बलिं तुल्यं मार्कवबीजमम्बुधिलवं द्विश्चित्रमूलाम्भसा । त्रिभृङ्गस्वरसैविभाव्य रचितः स्यान्नव्यचन्द्राभिधः पीतो जम्भलकाकाम्बुभिरयं वल्लप्रमाणो रसः ॥१६१॥ यामार्धेन जयेन्नवज्वरमिभं पारीन्द्रपोतो यथा टी०-हृद्धात्री चोक इति लोके, विषं, पारदः, मरिचं, श्वेताङ्कोल्लवीजं, गन्धकः, एतत्समभाग, भृङ्गराजबीजं चतुर्भागं, चित्रकमूलरसेन द्विवारं भाव्यं,मार्कवरसेन त्रिवारं, एवं कृतो रसः, निम्बूफलाकरसैः वल्लमितः पीतः नवज्वरं घटिकाचतुष्टयेन नाशयति; यथा पारीन्द्रपोतः सिंहबालकः गजं जयति ॥ १६१ ॥ मृत्युञ्जयरसमाहद्वौ लेलीतकतोलकौ च मरिचादेकः स एवायसः । एतत्सर्वमयोमयान्तरगतं द्राग्गोहविःपाचितं व्यंशं शुद्धमलं चतुर्लवमपि म्लेच्छं शरांशं विषम् । षड्भागं जयपालबीजमखिलं संमर्थ तिक्तानलकाथैादशधा तथाऽऽकरसैनिःसप्तकृतः कृतः ॥ १६२॥ स्थान्मृत्युञ्जय एषकः शतदलाम्भोमिनिपीतो यव. द्वन्द्वैकद्वयसो निहन्ति नितरां सामानिरामानपि । जीर्णानप्यचिरोद्भवांश्च विषमान् पश्चापि नानाविधानौदर्यान् सविबन्धनान् गदवरान्हन्त्येव रेकैः परम्॥१६३॥ टी०-गन्धकाौ भागौ, मरिचादेकः, एक एव लोहात् , एतदयःपात्रस्थं नवीनगोसर्पिषा पक्कं, व्यंशं अलं हरितालं, चतुर्भागं म्लेच्छं हिङ्गुलं तानं वा, शरांशं पश्चभागं विषं, जयपालबीजं षड्भाग; एतत् सर्व तिक्ता कटुकी, अनलश्चित्रकः, अनयोः क्वाथै‘दशधा विभाव्य, ततः आर्द्रकरसैः त्रिःसप्तकृत्वः एकविंशतिवारं विभाव्य, कृतो रसः मृत्युञ्जयनामकः स्यात् । एषकः खार्थे कः, शतदलाम्भोभिः कमलरसैः सेवन्तीपुष्परसैर्वा निपीतः, सामानिरामानपि निहन्ति । यवानां द्वन्द्वैकं गुञ्जामानं तत्परिमाणं; प्रमाणे द्वयसच्; तथा अचिरोद्भवाभूतनांश्चापि विषमान् नानाविधानौदर्याजठरगुल्मादीन् सविबन्धान्मलावरोधेन युक्तान्महागदान्हन्ति, कस्मिन्सति ? विरेचने सति ॥ १६२ ॥ १६३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144