SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ रसपद्धतिः । नव्यचन्द्राभिधामाहहृद्धात्री विषमीशवीजमरिचाङ्कोलोत्थबीजं बलिं तुल्यं मार्कवबीजमम्बुधिलवं द्विश्चित्रमूलाम्भसा । त्रिभृङ्गस्वरसैविभाव्य रचितः स्यान्नव्यचन्द्राभिधः पीतो जम्भलकाकाम्बुभिरयं वल्लप्रमाणो रसः ॥१६१॥ यामार्धेन जयेन्नवज्वरमिभं पारीन्द्रपोतो यथा टी०-हृद्धात्री चोक इति लोके, विषं, पारदः, मरिचं, श्वेताङ्कोल्लवीजं, गन्धकः, एतत्समभाग, भृङ्गराजबीजं चतुर्भागं, चित्रकमूलरसेन द्विवारं भाव्यं,मार्कवरसेन त्रिवारं, एवं कृतो रसः, निम्बूफलाकरसैः वल्लमितः पीतः नवज्वरं घटिकाचतुष्टयेन नाशयति; यथा पारीन्द्रपोतः सिंहबालकः गजं जयति ॥ १६१ ॥ मृत्युञ्जयरसमाहद्वौ लेलीतकतोलकौ च मरिचादेकः स एवायसः । एतत्सर्वमयोमयान्तरगतं द्राग्गोहविःपाचितं व्यंशं शुद्धमलं चतुर्लवमपि म्लेच्छं शरांशं विषम् । षड्भागं जयपालबीजमखिलं संमर्थ तिक्तानलकाथैादशधा तथाऽऽकरसैनिःसप्तकृतः कृतः ॥ १६२॥ स्थान्मृत्युञ्जय एषकः शतदलाम्भोमिनिपीतो यव. द्वन्द्वैकद्वयसो निहन्ति नितरां सामानिरामानपि । जीर्णानप्यचिरोद्भवांश्च विषमान् पश्चापि नानाविधानौदर्यान् सविबन्धनान् गदवरान्हन्त्येव रेकैः परम्॥१६३॥ टी०-गन्धकाौ भागौ, मरिचादेकः, एक एव लोहात् , एतदयःपात्रस्थं नवीनगोसर्पिषा पक्कं, व्यंशं अलं हरितालं, चतुर्भागं म्लेच्छं हिङ्गुलं तानं वा, शरांशं पश्चभागं विषं, जयपालबीजं षड्भाग; एतत् सर्व तिक्ता कटुकी, अनलश्चित्रकः, अनयोः क्वाथै‘दशधा विभाव्य, ततः आर्द्रकरसैः त्रिःसप्तकृत्वः एकविंशतिवारं विभाव्य, कृतो रसः मृत्युञ्जयनामकः स्यात् । एषकः खार्थे कः, शतदलाम्भोभिः कमलरसैः सेवन्तीपुष्परसैर्वा निपीतः, सामानिरामानपि निहन्ति । यवानां द्वन्द्वैकं गुञ्जामानं तत्परिमाणं; प्रमाणे द्वयसच्; तथा अचिरोद्भवाभूतनांश्चापि विषमान् नानाविधानौदर्याजठरगुल्मादीन् सविबन्धान्मलावरोधेन युक्तान्महागदान्हन्ति, कस्मिन्सति ? विरेचने सति ॥ १६२ ॥ १६३ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy