Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 94
________________ ८२ रसपद्धतिः ः । त्रिवृत्, चित्रकः, लोहभस्म, रजतभस्म, तद्वद्वौ भागौ, एकोनत्रिंशदंशान् तद्विशिष्टंद्रव्याणि चूर्णीकृत्य भावयेत्, प्रत्येकं द्विवारं अर्कदुग्धेन, मार्कवरसेनच; चित्रकरसेन तु द्विवारं त्रिवारं वा ऐच्छिको नियमः, अत्रत्यदन्तीबीजरसेन, न तु जेपालदन्त्याः, त्रिफलाकाथेन त्रिवारं भावयित्वा कृतः, लघुबदरास्थितुल्यः, चोरकयवानिका 'चोरओवा' इति लोके, गुडो जीर्णः, सामनिरामज्वरान्नाशयति ॥ १५६ ॥ १५७ ॥ अथ ज्वरप्रोत्थितं रसमाह - तुल्यांशं बलिनूततालममलं संमर्ध शुष्कं दिनं विट्पञ्चाङ्गुलजम्भभृङ्गहपुषादार्वीपलाण्डुद्रवैः । आद्रीकृत्य ततः सकृद्रविकरे दत्तं च कूप्यन्तरे न्यस्तं भस्मवति त्र्यहं हुतभुजा यत्रेऽप्रमत्तः पचेत् ॥ १५८॥ तत्कृप्यूर्ध्वगतं रसेन्द्रमसितं तत्पञ्चमांशं विषं ताम्रं सूतसमं बलिं विषसमं सग्रन्थितीक्ष्णत्रयम् । प्रत्येकं विषभागिकं तदखिलं जम्बूवटोदुम्बरावत्त्व सलिलैर्विमर्द्य विहितो नाम्ना ज्वरप्रोत्थितः १५९ टी० -- समभागं गन्धकपारदहरितालं, दिनं प्रहरचतुष्टयं, विट्पञ्चाङ्गुलः दुर्गन्ध एरण्डः, निम्बूफलं, मार्कवः, हपुषा सेरणीति लोके, दारुहरिद्रा, पलाण्डुः गृञ्जनविशेषः, एषां रसैरेकवारं भावयित्वा, सूर्यातपे शुष्कं कूपीमध्ये दत्तं, रक्षायन्त्रे सावधानः सन् अग्निना पचेत् । भस्म तु चिञ्चापलाशयोः संप्रदायात् । कृष्णवर्ण वत्सनाभं पञ्चमभागं, ताम्र भस्म रसेन्द्रतुल्यं, गन्धः पञ्चमांशः, पिप्पलीमूलं त्रिकटु च प्रत्येकं विषतुल्यम् । एतज्जम्ब्वादित्वग्भिर्विमर्य कृतः, रसैः प्रत्येकं सप्तधा भावितः, ज्वरनाशनरसो भवति, अनुपानं तु शर्करा ज्ञेया ॥ १५८ ॥ १५९ ॥ नवज्वरहरीं वटिकामाह , ――――――――― निम्बूभृङ्गजलैः पलद्वय मितैर्गद्याणकेनोपणाक्षुण्णाद्वादश कर्णिकाभिरुदितादर्कप्रसूनादपि । गुञ्जामात्रममुं निपीय घटिकामात्रेण मुक्तो ज्वरात्संस्वेद्य ज्वरहारिणी निगदिता रुग्जिष्णुना विष्णुना १६० टी० - निम्बूभृङ्गरसैः प्रत्येकं पलद्वयैः, मरिचाच्छण्माषकेण, विकसितादर्कपुष्पाद्वादशकर्णिकाभिः द्वादशसंख्याकरविबीजकोशैः, एकीकृत्य मर्दितात्, गुआमात्रमार्द्रकरसेन निपीय, नवज्वरान्मुक्तः स्यात्स्वेदं कृत्वा । विष्णुना इति विष्णुनामभिषजा उक्ता ॥ १६० ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144