Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 96
________________ ८४ रसपद्धतिः। चिन्तामणिरसमाहतद्वद्गन्धकसूतताम्रगगनैरेकांशकैरेकशः सबंशामृतकन्दकैर्लघुचितैः कारीषखण्डानलैः । भूगर्तेऽङ्गुलिषदखातपरिधौ संस्तीर्णताम्बूलिकापणैः संविहितैस्तथा सिकतयोपर्यप्यलं स्वेदितैः ॥१६४॥ पश्चाद्विशतिकुम्भिबीजशकलैरेकीकृतैः श्लक्ष्णशस्त्रिः कैराकजैविलोड्य रचितश्चिन्तामणिः स्याद्रसः। टी०-गन्धकः, पारदः, ताम्रभस्म, अभ्रकभस्म च, एतैः प्रत्येकमेकभागैः, सद्विभागविषैः, अङ्गुलिषट्खातपरिधौ अङ्गुलीनां षटुं तेन खातः निखनितः परिधिर्यस्य एवंभूते भूगर्ते, विस्तीर्णताम्बूलिकापणेराच्छादिते, तथा सिकतया उपरि आच्छादितैः, अल्पवनोत्पलवह्निमिः स्वेदितैः, पश्चाद्विंशतिभागैर्जेपालबीजशकलैरेकीकृतैः, आर्द्रकजैः रसैर्विलोड्य रचितश्चिन्तामणिरसः स्यादिति योजना । सर्वैरेकीकृत्य गोलकं कृत्वा, भूगर्ने संस्वेद्य, पश्चादाईकरसेन भावयित्वा, गुञ्जामात्रं दद्यात् । तद्वत्पूर्वगुणवत् ॥ १६४ ॥ विद्याधरीगुटिकामाहगन्धम्लेच्छरसामृतार्ककटुकाव्योष त्रिवृद्दन्तिकाहेमाहात्रिफलाश्च टङ्कणममूभिः स्यात्समा तिन्तिणी ॥१६५।। त्वग्बीजै रहिता च पकसुरसा संमर्य माषोन्मिता लीढा केन नवज्वरेषु गुटिका विद्याधरी शस्यते । टी०-गन्धकः, म्लेच्छो हिड्डुलः, पारदः, विषं, ताम्रभस्म, कटुकी, त्रिकटु, श्यामा, दन्तीबीजं, हेमाह्वा स्वर्णक्षीरी 'चोक' इति लोके, फलत्रिकं, टङ्कणक्षारः, एतैस्तुल्या अम्लिका परिपक्का बीजत्वग्रहिता; एतत्सर्व संमद्य कृता गुटिका माषमात्रा; केन उष्णोदकेन सह लीढा, नवज्वरेषु शस्यते ॥ १६५ ॥ त्रैलोक्यतापहररसमाहपथ्यापारदताम्रगन्धचपलातिक्तात्रिवृद्दन्तिकाबीजं व्योषवरास्थि वज्रिपयसा विर्भावयित्वा कृतः॥१६६।। पीतोऽयं मधुनैकरक्तितुलितस्त्रैलोक्यतापापहः . सद्यो हन्ति नवज्वरं विषमिव श्रीचारुचामीकरम् । १०'बीजशकलव्यामिश्रकैरेकशः' इति पा० । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144