Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 85
________________ रसपद्धतिः । टी०-रसरत्नसमुच्चये तु 'अष्टास्रं चाष्टफलकं षट्रोणमतिभासुरम् । अम्बुदेन्द्रधनुारितरं पुंवत्रमुच्यते ॥ स्त्रीपुंनपुंसकं पत्रं योज्यं स्त्रीपुंनपुंसके ॥ आयुःप्रदं झटिति सद्गुणदं च वृष्यं दोषत्रयप्रशमनं सकलामयन्नम् । सूतेन्द्रवन्धवधसद्गुणकायंदायि मृत्युजयं तदमृतोपममेव वज्रम् ॥ एकयामावधिः स्विनः कुलित्थक्वाथके पविः । विलिप्तं मत्कुणस्यास्त्रैः सप्तवारं विशोषितम् ।। कासमदरसापूर्णे लोहपात्रे निवेशितम् । सप्तवारं परिश्मातं वज्रं भस्म भवेत्खलु ॥ पक्वबिम्बीफलच्छायं वृत्तायतमवक्रकम् । स्निग्धमत्रणकं स्थूलं प्रवालं सप्तधा शुभम् ॥ क्षयपित्तास्रकासनं दीपनं पाचनं लघु । विषभूतादिशमनं विद्रुमं नेत्ररोगनुत् ॥ हादि श्वेतं लघु स्निग्धं रश्मिवन्निर्मलं महत् । ख्यातं तोयप्रभं वृत्तं मौक्तिकं नवधा शुभम् ॥ कफपित्तक्षयध्वंसि कासश्वासाग्निमान्यजित् । पुष्टिदं वृष्यमायुष्यं दाहघ्नं मौक्तिकं मतम् ॥ कुशेशयदलच्छायं स्वच्छं स्निग्धं मृदु स्फुटम् । वृत्तायतं समं गात्रं माणिक्यं श्रेष्टमुच्यते॥ माणिक्यं दीपनं वृष्यं कफवातक्षयातिनुत् । भूतवेतालपापन्नं कर्मजव्याधिनाशनम् ॥ हरिद्वर्ण गुरु स्निग्धं स्फुरद्रश्मिचयं शुभम् । मसणं भासुरं ताय गात्रं सप्तगुणं मतम् ॥ ज्वरच्छर्दिविषश्वाससन्निपाताग्निमान्द्यनुत् । दुनीमपाण्डुशोफन्नं तायमोजोविवर्धनम्॥ वैदूर्य श्यामशुभ्राभं समं स्वच्छं गुरु स्फुटम्। भ्रमच्छुभ्रोत्तरीयेण गर्भितं शुभमीरितम् ॥ गोमेदःसमरागत्वाद्गोमेदं रत्नमुच्यते । सुस्वच्छगोजलच्छायं स्वच्छं स्निग्धं समं गुरु ॥ निर्दलं मसृणं दीप्तं गोमेदं शुभमष्टधा। गोमेदं कफपित्तनं क्षयपाण्डुक्षयङ्करम् ॥ दीपनं पाचनं रुच्यं खच्यं बुद्धिप्रबोधनम् । एकच्छायं गुरु स्निग्धं खच्छं पिण्डितविग्रहम् ॥ मृदु मध्ये लसज्योतिः सप्तधा नीलमुत्तमम् । श्वासकासहरं वृष्यं त्रिदोषघ्नं सुदीपनम् ॥ विषमज्वरदुर्नामपापघ्नं नीलमीरिम्। पुष्परागं गुरु खच्छं स्निग्धं स्थूलं समं मृदु ॥ कर्णिकारप्रसूनाभं मसृणं शुभमष्टधा । निष्प्रभं कर्कशं रूक्षं पीतश्याम नतोनतम् ॥ कपिशं कपिलं पाण्डु पुष्परागं परित्यजेत् । पुष्परागं विषच्छर्दिकफवाताग्निमान्द्यजित् ॥ दाहकुष्ठप्रशमनं दीपनं पाचनं लघु ॥ १२१ ॥अथ मौक्तिकं, अष्टौ मौक्तिकभूमयः करिकिरित्वक्सारमत्स्याम्बुमुकम्बूरोगतिशुक्तयोऽत्र चरमोत्पन्नं पुनर्विश्रुतम् ॥ १२२ ॥ कामचारान्मौक्तिकजातीराहयन्मेघोदरसंभवं तदवनीमप्राप्तमेवामरै योमस्थैरपनीयते विनिपतद्वर्षासु मुक्ताफलम् । तिग्मांशोरपि दुर्निरीक्ष्यमकृशं सौदामिनीसन्निभं देवानामपि दुर्लभं न मनुजाः स्युस्तस्य पात्रं पुनः॥१२३॥ रस० ७ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144