________________
रसपद्धतिः ।
टी०-रसरत्नसमुच्चये तु 'अष्टास्रं चाष्टफलकं षट्रोणमतिभासुरम् । अम्बुदेन्द्रधनुारितरं पुंवत्रमुच्यते ॥ स्त्रीपुंनपुंसकं पत्रं योज्यं स्त्रीपुंनपुंसके ॥ आयुःप्रदं झटिति सद्गुणदं च वृष्यं दोषत्रयप्रशमनं सकलामयन्नम् । सूतेन्द्रवन्धवधसद्गुणकायंदायि मृत्युजयं तदमृतोपममेव वज्रम् ॥ एकयामावधिः स्विनः कुलित्थक्वाथके पविः । विलिप्तं मत्कुणस्यास्त्रैः सप्तवारं विशोषितम् ।। कासमदरसापूर्णे लोहपात्रे निवेशितम् । सप्तवारं परिश्मातं वज्रं भस्म भवेत्खलु ॥ पक्वबिम्बीफलच्छायं वृत्तायतमवक्रकम् । स्निग्धमत्रणकं स्थूलं प्रवालं सप्तधा शुभम् ॥ क्षयपित्तास्रकासनं दीपनं पाचनं लघु । विषभूतादिशमनं विद्रुमं नेत्ररोगनुत् ॥ हादि श्वेतं लघु स्निग्धं रश्मिवन्निर्मलं महत् । ख्यातं तोयप्रभं वृत्तं मौक्तिकं नवधा शुभम् ॥ कफपित्तक्षयध्वंसि कासश्वासाग्निमान्यजित् । पुष्टिदं वृष्यमायुष्यं दाहघ्नं मौक्तिकं मतम् ॥ कुशेशयदलच्छायं स्वच्छं स्निग्धं मृदु स्फुटम् । वृत्तायतं समं गात्रं माणिक्यं श्रेष्टमुच्यते॥ माणिक्यं दीपनं वृष्यं कफवातक्षयातिनुत् । भूतवेतालपापन्नं कर्मजव्याधिनाशनम् ॥ हरिद्वर्ण गुरु स्निग्धं स्फुरद्रश्मिचयं शुभम् । मसणं भासुरं ताय गात्रं सप्तगुणं मतम् ॥ ज्वरच्छर्दिविषश्वाससन्निपाताग्निमान्द्यनुत् । दुनीमपाण्डुशोफन्नं तायमोजोविवर्धनम्॥ वैदूर्य श्यामशुभ्राभं समं स्वच्छं गुरु स्फुटम्। भ्रमच्छुभ्रोत्तरीयेण गर्भितं शुभमीरितम् ॥ गोमेदःसमरागत्वाद्गोमेदं रत्नमुच्यते । सुस्वच्छगोजलच्छायं स्वच्छं स्निग्धं समं गुरु ॥ निर्दलं मसृणं दीप्तं गोमेदं शुभमष्टधा। गोमेदं कफपित्तनं क्षयपाण्डुक्षयङ्करम् ॥ दीपनं पाचनं रुच्यं खच्यं बुद्धिप्रबोधनम् । एकच्छायं गुरु स्निग्धं खच्छं पिण्डितविग्रहम् ॥ मृदु मध्ये लसज्योतिः सप्तधा नीलमुत्तमम् । श्वासकासहरं वृष्यं त्रिदोषघ्नं सुदीपनम् ॥ विषमज्वरदुर्नामपापघ्नं नीलमीरिम्। पुष्परागं गुरु खच्छं स्निग्धं स्थूलं समं मृदु ॥ कर्णिकारप्रसूनाभं मसृणं शुभमष्टधा । निष्प्रभं कर्कशं रूक्षं पीतश्याम नतोनतम् ॥ कपिशं कपिलं पाण्डु पुष्परागं परित्यजेत् । पुष्परागं विषच्छर्दिकफवाताग्निमान्द्यजित् ॥ दाहकुष्ठप्रशमनं दीपनं पाचनं लघु ॥ १२१ ॥अथ मौक्तिकं, अष्टौ मौक्तिकभूमयः करिकिरित्वक्सारमत्स्याम्बुमुकम्बूरोगतिशुक्तयोऽत्र चरमोत्पन्नं पुनर्विश्रुतम् ॥ १२२ ॥ कामचारान्मौक्तिकजातीराहयन्मेघोदरसंभवं तदवनीमप्राप्तमेवामरै
योमस्थैरपनीयते विनिपतद्वर्षासु मुक्ताफलम् । तिग्मांशोरपि दुर्निरीक्ष्यमकृशं सौदामिनीसन्निभं देवानामपि दुर्लभं न मनुजाः स्युस्तस्य पात्रं पुनः॥१२३॥
रस० ७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com