SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ७४ रसपद्धतिः । टी०-किरिः सूकरः । त्वक्सारो वंशः । अम्बुमुक् मेघः। कम्बुः क्षुद्रशङ्खः । उरोगतिः सर्पः ॥ १२२ ॥ १२३ ॥ करिमौक्तिकलक्षणमाहयहन्तावलकुम्भसंभवमदः पीतारुणं मन्दरुक् धात्रीदभ्रमथान्यरत्नमधमं काम्बोजकुम्भीन्द्रजम् । मत्स्यस्याहप्रोष्ठीगर्भभवः सुमौक्तिकमणिर्गुञ्जासमः पाटली. पुष्पाभः स न लभ्यते भुवि जनैरस्मिन्कलौ पापिनि ॥१२४॥ सर्पमौक्तिकमाह-- शेषस्यान्वयिनां फणासु फणिनां यन्मौक्तिकं जायते वृत्तं निर्मलमुज्ज्वलं शशिरुचि श्यामच्छवि श्रीकरम् । कड़ोलाकृति कोटिकोटिसुकृतैः प्राप्नोति चेन्मानवः स स्याद्वाजिगजाधिपो नृपसमोजातोऽपि नीचे कुले ॥१२५॥ आस्ते सअनि चेत्स पन्नगमणिस्तं यातुधानामरा हतु रन्ध्रमवेक्षते तदितरः कुर्यान्महाशान्तिकम् । वंशजलक्षणमाहमुक्ताः सन्ति कुलाचलेषु करकाकान्तिद्रुहो वंशजाः कर्कन्धूफलबन्धवो निदधते कण्ठेषु सिद्धाङ्गनाः ॥ १२६ ॥ कम्बुमुक्ताफलस्य लक्षणमाहशङ्खस्य श्रुतिहारिणो जलनिधौ ये वंशजाः कम्बवस्तेष्वन्तः किल मौक्तिकं भवति यत्तच्छुक्रतारानिभम् । कापोताण्डसमं सुवृत्तमकृशश्रीकं सुरूपं लघु स्निग्धं स्पर्शपवित्रमत्र न पुनर्मत्यैस्तदासाद्यते ॥ १२७ ॥ वाराहमाहएकाकी शिशुरेव निःस्पृहतया यः काननं गाहते तस्थानादिवराहवंशजनुषः कोलस्य मूर्ध्नि स्थितम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy