SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ रसपद्धतिः । कङ्कोलाकृतिमिन्दुकुन्दधवलं दैवादवाप्नोति चेन्मुक्तां यः समुपास्यते स निधिभिर्मयोधनाधीशवत् ॥१२८॥ शुक्तिजलक्षणमाहवज्राघातविघट्टितालमुखाद्भष्टाः पुनर्ये द्विजाः क्षारोदन्वति यत्र यत्र पतितास्ते ते भवन्नाकराः। आदायः पृथुबर्बरो जलनिधौ स्यादारलाटस्ततो नाम्ना सिंहलकोर्मिजौ तदुपरि स्यात्पारसीकोऽपरः ॥१२९॥ अत्रोदन्वति शुक्तिजीवजठरकोडैककोणस्थिताः खातीशम्बरविन्दवः परिणमन्त्यक्लिन्नमुक्तातया । सुस्निग्धं मधुवर्णमुत्तमरुचि स्यात्सिंहले मौक्तिकं स्निग्धं पीतरुगिन्दुविम्बरुचिरं स्यादारलाटोद्भवम् ॥१३०॥ खंच्छं स्निग्धमतीव बन्धुरतरं स्यात्पारसीकोद्भवं रूक्षं किंचन वर्णसंकरयुतं स्याद्वाबरं मौक्तिकम् । शोणं तूर्मिजसंभवं विदुरतिस्निग्धं तथाऽऽदायज चातुर्वर्ण्यहितं सुलक्षणमतिश्लक्ष्णं कविश्रीधरम् ॥१३१॥ षट्खेतेष्वपि रुक्मिणीव जगति ख्यातिं गता रुक्मिणीनाना शुक्तिरनीदृगुत्तमगुणा सिन्धौ समुजृम्भते । तस्या गर्भभवं तु कुङ्कुमनिभं सर्वासु जातिष्वपि श्रेष्ठं भूरिगुणं वदन्ति कृतिनः श्रेयस्करं तद्भवेत् ॥१३२॥ टी०-रसरत्नसमुच्चये शोधनादिप्रकारस्तु-" शुद्ध्यत्यम्लेन माणिक्यं जयन्या मौक्तिकं तथा । विद्रुमं क्षारवर्गेण ताय गोदुग्धकैस्तथा ॥ पुष्परागं च संधानैः कुलित्थक्वाथसंयुतैः । तण्डुलीयजले वज्रं नीलं नीलीरसेन च ॥रोचनाभिश्च गोमेदं वैदूर्य त्रिफलाजलैः । लकुचद्रावसंपिटैः शिलागन्धकतालकैः ॥ वज्रं विनाऽन्यरत्नानि म्रियन्तेऽष्टपुटैः खलु । पुष्परागं महानीलं पद्मरागं प्रवालकम् ॥ मणयोऽन्येऽपि विज्ञेयाः सूतबन्धस्य कारकाः । वैक्रान्तः सूर्यकान्तश्च हीरकं मौक्तिकं मणिः ॥ १ 'श्वेतं' इति पा०। २ 'युतं ' इति पा० । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy