________________
रसपद्धतिः ः ।
"
चन्द्रकान्तस्तथाऽत्रैव राजावर्तश्च सप्तमः । गहडोद्वारकश्चैव ज्ञातव्या मणयो ह्यमी ' इति रत्नभस्मादिनिरूपणम् ।
७६
अथ विषलक्षणम् । रसरत्नसमुच्चये - " घनं रूक्षं च कठिनं भिन्नाञ्जनसमप्रभम् । कन्दाकारं समाख्यातं कालकूटं महाविषम् ॥ मयूराभं मयूराख्यं, बिन्दुमद्विन्दुकं स्मृतम् । चित्रमुत्पलकन्दाभं सक्तुकं सक्तुवद्भवेत् ॥ वालुकं वालुकाकारं, वत्सनाभं तु पाण्डुरम् । शङ्खवर्णं शङ्खकं स्याच्छुभ्रवर्णं सुमङ्गलम् ॥ घनं रूक्षं च निबिडं शृङ्गाकारं च शृङ्गकम् । मर्कटं कपिवर्णाभं, कर्दमं कर्दमप्रभम् ॥ मुस्तकं मुस्तकाकारं, सितं पीतं च कर्दमम् । पुष्करं पुष्कराकारं, शिखी शिखिशिखाप्रभम् । हारिद्रकं हरिद्राभं, हरितं हरितं स्मृतम् । चक्राकारं भवेच्चक्रं, नीलवर्णं हलाहलम् ॥ श्वेतं रसे रक्तबिम्बं भक्षणे व्याघिनाशनम् । पीतं विषं तथा कृष्णं संदष्टे विषमुच्यते " इति विषलक्षणम् ॥ १२९-१३२॥
तीक्ष्णैरम्ल विदाहिकोष्णलवणैः क्रोधैव संदूषितं पित्तं रक्तमुदीरयेदिह बुधैस्तद्रक्तपित्तं स्मृतम् । ऊर्ध्वाधो वदनाद्गुदाच्च मिलितं निर्याति यच्छ्रेष्मणा संसृष्टं मरुताऽपि चन्द्रयुतं कृष्णं न साध्यं वदेत् ॥१३३॥ ऊर्ध्वं यद्बलिनो नवं न कलुषं दोषैक संश्लेषितं निर्वेगं खलु रक्तपित्तमणुशो नोपद्रुतं साधयेत् । काले चोर्ध्वगतं विरेकशमनैस्तिक्तः कषायैः पुनर्याप्यं दोषयुगेन मिश्रितमधोभागेन यत्संवहेत् ॥ १३४ ॥ तस्मिन्वान्तिशमौ तु मृष्टमधुरं सर्व हितं तर्पणं पेयाद्यं शुभलाजमिक्षुजरसं सर्वत्र संसर्जनम् । ज्ञात्वा कालबलावलं त्वनुबलं दोषस्य दृष्यस्य च क्षैण्यं सर्वविकारशातनविधौ ज्ञेयं सुधीभिः पुनः ।। १३५ ।।
दद्यादत्र वसन्तराज युगलं पञ्चामृतां पर्पटीं गन्धस्यापि रसायनं मधुसितायुक्तं वसन्ताभिधम् । वासाकल्ककषायपाकगुटिकासर्पिः कणामोदकं लावैणादिरसांश्च शीतमधुरान्मन्थान्भिषक् पाययेत् ॥ १३६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com