SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ रसपद्धतिः। ७७ यत्किश्चिच विरोधि तक्रमतसीतैलप्रपकं सुरां शाकं जागरणं व्यवायकटुकं तीक्ष्णं भृशं वर्जयेत् । इति रक्तपित्तचिकित्सा। अथ श्वासकासचिकित्सा। कासान्पश्च समीरपित्तकफजान् द्वौ तु क्षयोरक्षितातेषां स्वस्वनिदानतश्च निखिला साध्यामसाध्याकृतिम् १३७ कुर्यात्कर्म तु शोधनादि बलिनः स्मृत्वा च पूर्वक्रम धूमं नावनमञ्जनक्रमयुतं गण्डूषसंवेदनम् । भाङ्गीकण्टकिवासकोषणकणाशुण्ठ्यादिलेहांस्तथा श्वासे, हिकिषु तैलमात्रमधिकं कासनमन्यत्पुनः॥१३८ ॥ क्षौद्रं सपिरिहेष्यते मृदुतरं संशोधनं पूर्ववत् साध्यासाध्यविभाजनं तु चरकाज्ज्ञात्वा निदानादपि । तानं ताम्रजपर्पटी मधुकणाश्रेष्ठायुतां सर्वदा ज्ञात्वा दोषबलाबलं विमलदृक्पथ्यं ददीतोचितम् ॥१३९॥ इति कासश्वासहिकाचिकित्सा। वान्तिः शोणितपूयतुल्यकफजा शैत्यं ज्वरः सर्वदा कासः पीनसवह्निमान्द्यकृशता ध्वंसः स्वरस्यापि च । ज्ञेयं यक्ष्मगदस्य चिह्नममलं, सत्त्वं बलं धातुजं ज्ञात्वा संविदधीत भेषजविधि साध्ये त्वसाध्ये न तु १४० दोषाट्यस्य बलान्वितस्य वमनं शक्तस्य युक्तं पुनः स्नेहस्वेदविधि विधाय मधुरैः स्निग्धैर्यवाग्वादिभिः । दद्याद्वान्तमनन्तरं सुसितया शम्याकवर्गेण वा काथेन त्रिवृतायुतेन मधुना सर्पियुतेनापि च ॥ १४१ ॥ ज्ञात्वा कोष्ठविशुद्धितामनु रसं यूपं च दद्यात्ततः शाल्यानं लघु मुद्गपष्टिकयवान् गोधूमपूपान् लघून् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy