SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ रसपद्धतिः । , टी० - पिण्डस्त्विति । पिण्डः स्वरूपं, तत् चेल्लघु तदा उत्तमं समं चेन्मध्यमं, गुरु चेन्मौल्यमल्पमेव । तथा तरतमादिभेदेन त्रेधा लाघवं त्रेधा गौरवं, षोढा समं, एवं द्वादशधा मौल्यं सामान्यतो ज्ञेयम् । तदेवोदाहरणत्वेन योजयतिपिण्डस्तण्डुलसंमित इत्यादि । तण्डुलेन मितः यववत्स्थूलः, तत्राप्यच्छत्वादिगुणसंपन्नः, एवं क्रमं ज्ञात्वा निष्कं सुवर्ण मौल्यमादिशेत् । त्रैराशिकं प्रतिपादयति- पिण्डो यस्येति यस्य यवद्वयतुल्यः पिण्डस्तण्डुलपरिमित एव चेत्तदा चतुर्निष्का आदेशनीयाः । पिण्डश्चेदित्यादि । पिण्डश्चेत्रिचतुःपञ्चयवतुल्यस्तण्डुलमितः तदाऽष्टौ निष्काः षोडश निष्काः, एवं द्विर्द्विर्वर्धितं द्वात्रिंशच्चतुःषष्टिरित्यादिक्रमेण वर्धितमादिशेत् यद्वृद्धत्वे तु यवोपमः पुनस्तत्पादतो मानवान्पादेन तण्डुलमितस्तदा अष्टाविंशतिमिर्विवर्धितं मौल्यं मणिः प्राप्नोति । यदा पिण्डे सप्तयवोपमस्तण्डुलमितो वज्रो वारितरत्वादिगुणसंपन्नो निर्दोषश्चेत्तदा सहस्रद्वयं मौल्यं प्राप्नोति । इदानीं हीनतायां मौल्यमाह - स्याच्चेदिति । सपादयवस्तत्तुल्यतायां गुरुतायां सपादतण्डुलस्तदाऽस्य मणेः मौल्यं क्षीत । एवं सपादयवपरिमित स्तण्डुलद्वयपरिमितश्चेत्तदा इतोऽपि मौल्यं हीनमादिशेत् । इति क्षये क्रमो ज्ञातव्यः । उपसंहारव्याजेनाह - इत्थं युक्तिबलादिति । चतुरः क्रयक्रियाविचारे कुशलः, वज्रवर्ष्मणि वज्रदेहे, अर्घस्य मौल्यस्य, क्षयं कल्पयेत् । असति दोषे वृद्धिः, सति दोषे क्षयः । तथा गुणिनो यावन्मौल्यं स्यात्, ततः अगुणिनः वृद्धेश्वतस्रः कलाश्छेत्तव्याः । तत्र देशकालद्रव्यात्मषु यदा कुशलं स्यात्तदा गुणः, अन्यथा दोष इति ॥ १०६ ॥ १११ ॥ तत्र मौल्यप्रयोक्तुर्गुणानाह ७० कर्मज्ञो लघुपाणिरर्थविमुखः शास्त्रप्रवीणो गुणी निःसंदिग्धमतिर्विदेशविधिविन्मौल्यप्रयोक्ता भवेत् । टी० कर्मज्ञ इति मौल्यं कर्तुं जानाति । लघुपाणिर्येन गृहीत्वा दत्तं गुणाय भवति सः | अर्थविमुखो मध्ये कापट्यं कृत्वा न स्थितः । गुणी ऊहापोहविचारचतुरः । निःसंदिग्धमतिरनेकरत्नग्रहणजातमतिः । विदेशविधिवित् देशान्तरस्थभाषामौल्यादिज्ञः । एवं प्रयोक्ता रत्नविक्रेता भवेत् । - तत्राज्ञानिनो मौल्यप्रयोग दोषमाह--- अज्ञानादविचार्य मौल्यमधमः कुर्यान्मणेः कुत्सितं कुष्ठी सोत्र भवेदमुत्र स पुनर्गच्छेन्महारौरवम् ॥ ११२ ॥ टी० वं अज्ञानादिति । अमुत्र परलोके महारौरवं नरकम् ॥ ११२ ॥ मुद्रादौ पविन्यास प्रकार माह यत्स्यादङ्गममुष्य निम्नमुदितं सद्भिः शिरस्तत्पवेविस्तीर्ण तु तलं ततः स शिरसा योज्योऽङ्गुलीयादिषु । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy