________________
रसपद्धतिः।
टी०-यत्स्यादिति । अमुष्य हीरकस्य निम्नमङ्गं गभीरं सद्भिस्तच्छिर उदितं, विस्तीर्णं तु तलमुदितम् । अङ्गुल्यादिषु मुद्रिकादिषु शिर एव योज्यम् ।परीक्षाकरणप्रकारमाहवामं वामविलोचनः करतलं विस्तार्य तस्मिन्पविं तर्जन्या परिचालयेदवहितः प्रायस्खलेन स्थितः ॥ ११३ ॥ टी०-अवहितः पण्डितः, वामं करतलं विस्तार्य, तस्मित् पविं तर्जन्या परिचालयेत् कीदृशः? वामविलोचनः वक्रदृष्टिः सन्नेव । तलेन निम्नत्वेन स्थितः ॥११३॥ किं विचारणीयं तदाहजातिर्दोषगुणौ खनिर्गिरिकथे रङ्गोपरङ्गौ छविमौल्यं चेति दशप्रकारमशनेर्जानाति यो लक्षणम् । वाह्याभ्यन्तरतः प्रविष्ट इव स स्थाच्छास्त्रतो मण्डली तेषां संसदमाह चार्यविबुधः श्रीमण्डली मण्डली ॥११४॥ टी०-गिरिः पर्वतः । कथेतिहासः । रङ्गः शुक्लादिः । उपरङ्गो नीलादिमिश्रः। छवि: कान्तिः । मौल्यं देशदेशीयम् । इति दशप्रकारं पवेर्लक्षणं यो जानाति स मण्डली प्रविशेत् । क इव ? बाह्याभ्यन्तरतः प्रविष्ट इव । कस्मात् ? शास्त्रतः । मण्डलीसंज्ञाया अर्थमाह-तेषामिति। मण्डलिकानां रत्नविदां सभां मण्डलीमाहुः॥ ११४ ॥ तस्यामगुणवान प्रविशेदित्याहहीनाङ्गः प्रविशेन तां न पतितो नो वाऽन्त्यजो नावला भाण्डायैरिह मौल्यमल्पमधिकं प्रोक्तं न दोषाय तत् । व्युत्क्रम्योत्तममध्यमाधमविपर्यासेन यद्यत्तथा । स्नेहाल्लुब्धतया तु संसदि पुनः कुष्ठी भवेन्मण्डली ॥११५॥ टी०-हीनाङ्गः नासादिरहितः । पतितः जातिभ्रष्टः । अन्त्यजश्चाण्डालादिः । अबला स्त्री । इह भाण्डाद्यैर्मध्यमं मौल्यं प्रोक्तं दोषाय न भवति; उत्तमाधममध्यममणेर्विपर्यासे द्रव्यलोभेन संसत्प्रविष्टः कुष्ठी भवेत् ॥ ११५ ॥ एकेन मौल्यविचारणा न कार्येत्याहनैको मौल्यविचारणां विरचयेन्नैकः परीक्षेत वा भ्रान्तेः पौरुषधर्मतस्तु कृतके मुह्यन्ति सुज्ञा मणौ । शाणक्षारविलेखनेन विलिखेत्संदेहमन्ये पुनलिख्यन्ते कुलिशेन हन्त कुलिशं केनापि नो लिख्यते ११६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com