Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 73
________________ रसपद्धतिः । ६१ कृत्वा तस्य रसस्य भागा इत्यादि रसकर्पूरप्रकारो ज्ञेयो रसकल्पलतायामिति । केचित्तु "पिष्टं पांसुपटुप्रगाढममलं वज्यम्बुनाऽनेकशः सूतं धातुयुतं खटीकवलितं तं संपुटे रोधयेत् । अन्तःस्थं लवणस्य तस्य च तले प्रज्वाल्य वहिं हठाद्धस्त्रं ग्राह्यमथेन्दुकुन्दधवलं भस्मोपरिस्थं शनैः ॥ तद्वलद्वितयं लवङ्गसहितं प्रातः प्रयुक्तं भजेदूर्ध्वं रेचयति द्वियाममसकृत्पेयं जलं शीतलम् । एतद्धन्ति च वत्सरावघि विषं षाण्मासिकं मासिकं शैलोत्थं गरलं मृगेन्द्रजटिलोद्भूतं च तात्कालिकम् -" इति लवणमेदि सुधानिधिरसः । “उत्क्षिप्तमूलं विषजं विदध्याद्दर्भेषु सूतं कनकांशपिष्टम् । संवेष्टयेस्कोलभवेन त्तत्तु मांसेन पश्चाद्विपचेद्वियामम् ॥ धत्तूरवोद्भवतैलगर्भे संवर्तिता चापि मुखस्थितेयम् । संभोगकाले दृढतां करोति वीर्यस्य दुग्धं भजतां नराणाम्"इति हिरण्यगर्भगुटिका । अत्रैवं रसकर्पूरे भागकल्पना-रसभागाः षट्, सैन्धवं सप्तभागं, सौराष्ट्र चतुर्दशभागा, गैरिकं विंशतिभागिकं एतदेकीकृत्य डमरुयन्त्रेण पचेत् । तदेव कूप्यां दत्त्वा पुनः पचेत् । रसरत्नाकरस्तु - " रसाद्विगुणितं गन्धं खत्वे कुर्याच्च कज्जलीम् । तोयेनोत्तरवारुण्या भावयेत्सप्तधा भिषक् ॥ निक्षिप्य कज्जलीं कूप्यां पूर्वतोयेन पूरयेत् । मुखे मुद्रां प्रकुर्वीत भूमौ गर्ता च कारयेत् ॥ हस्तमात्रयमाणेन तत्र कूपीं विनिक्षिपेत् । सा गर्ता सिकतापूर्णा द्यङ्गुला कूपिकोपरि ॥ ततः कुम्भिपुटं दद्यादेकविंशतिवारकम् । जायते तु तले भस्म हिडुलाभं सुनिश्वितम् ॥ द्विवल्लं घृतखण्डाभ्यां वीर्यस्तम्भं करोति च " - इति । यद्वा, “शुद्धसूतं समं तुत्थं घनक्काथेन सप्तधा । भावयित्वा रसं कूप्यां मुखे मुद्रां च कारयेत् ॥ वालुकायन्त्रमध्येऽग्निं दिनैकं ज्वालयेदधः । रसकर्पूरविख्यातः खोटबद्धो भवेद्रसः ” - इति । “क्षीरेणोत्तरवारुण्या त्रिदिनं शुद्धपारदम् । मर्दयेत्तु सदा खल्वे वज्रमूषान्धितं पुटेत् । करीषाम्नौ दिवारात्रं पचेत्सम्यगतन्द्रितः । तमुद्धृत्य पुनर्मर्यं तद्वदुवा च पाचयेत् ॥ तद्वन्मर्यं पुनः पाच्यं म्रियते पाण्डुरो रसः " - इति । यद्वा - "पलं सूतं पलं गन्धं कृष्णोन्मत्तद्रवैरुयहम् | मर्दितं वज्रमूषायां चक्रीकृत्वा पिधाय च ॥ दिनान्ते तत्समुद्धृत्य तद्वन्मर्य च पाचयेत् । एवं सप्तदिनं कुर्यान्मृतो भवति वै रसः ॥ रसः पन्नगवर्णस्तु चन्द्राक वेध(ष्ट)येत्क्रमात् । रुद्धा मूषान्धितं धार्यं दिव्यं भवति काञ्चनम् " - इति ॥ गर्तमध्ये वालुकां, तदुपरि मूषां वालुकयाऽऽच्छाद्य बाह्यगर्ते सर्वतोऽग्निः । हिङ्गुलप्रकारस्तु"अशुद्धं पारदं भागं चतुर्भागं च गन्धकम् । उभौ क्षिप्त्वा लोहपात्रे क्षणं मृद्वग्निना पचेत् ॥ तस्मिन्मनःशिलाचूर्ण पारदाद्दशमांशिकम् । क्षित्वा चाल्यमयोदय ह्यवतार्य सुशीतलम् ॥ कृत्वा च तुण्डशकलान् काचकूप्यां निरुध्य च । वस्त्रमृत्तिकया सम्यक्काचकूपीं प्रलेपयेत् ॥ सर्वतोऽङ्गुलमानेन छायाशुष्कां तु कारयेत् । वालुकायन्त्रगर्भे तु दिनं मृद्वग्निना पचेत् ॥ कमवृद्धाग्निना पश्चात्पचेद्दिवसपञ्चकम् । सप्ता १ 'धान्ये' इति पा० । २ 'पिष्ट्वा' इति पा० । रस० ६ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144