________________
रसपद्धतिः ।
६१
कृत्वा तस्य रसस्य भागा इत्यादि रसकर्पूरप्रकारो ज्ञेयो रसकल्पलतायामिति । केचित्तु "पिष्टं पांसुपटुप्रगाढममलं वज्यम्बुनाऽनेकशः सूतं धातुयुतं खटीकवलितं तं संपुटे रोधयेत् । अन्तःस्थं लवणस्य तस्य च तले प्रज्वाल्य वहिं हठाद्धस्त्रं ग्राह्यमथेन्दुकुन्दधवलं भस्मोपरिस्थं शनैः ॥ तद्वलद्वितयं लवङ्गसहितं प्रातः प्रयुक्तं भजेदूर्ध्वं रेचयति द्वियाममसकृत्पेयं जलं शीतलम् । एतद्धन्ति च वत्सरावघि विषं षाण्मासिकं मासिकं शैलोत्थं गरलं मृगेन्द्रजटिलोद्भूतं च तात्कालिकम् -" इति लवणमेदि सुधानिधिरसः । “उत्क्षिप्तमूलं विषजं विदध्याद्दर्भेषु सूतं कनकांशपिष्टम् । संवेष्टयेस्कोलभवेन त्तत्तु मांसेन पश्चाद्विपचेद्वियामम् ॥ धत्तूरवोद्भवतैलगर्भे संवर्तिता चापि मुखस्थितेयम् । संभोगकाले दृढतां करोति वीर्यस्य दुग्धं भजतां नराणाम्"इति हिरण्यगर्भगुटिका । अत्रैवं रसकर्पूरे भागकल्पना-रसभागाः षट्, सैन्धवं सप्तभागं, सौराष्ट्र चतुर्दशभागा, गैरिकं विंशतिभागिकं एतदेकीकृत्य डमरुयन्त्रेण पचेत् । तदेव कूप्यां दत्त्वा पुनः पचेत् । रसरत्नाकरस्तु - " रसाद्विगुणितं गन्धं खत्वे कुर्याच्च कज्जलीम् । तोयेनोत्तरवारुण्या भावयेत्सप्तधा भिषक् ॥ निक्षिप्य कज्जलीं कूप्यां पूर्वतोयेन पूरयेत् । मुखे मुद्रां प्रकुर्वीत भूमौ गर्ता च कारयेत् ॥ हस्तमात्रयमाणेन तत्र कूपीं विनिक्षिपेत् । सा गर्ता सिकतापूर्णा द्यङ्गुला कूपिकोपरि ॥ ततः कुम्भिपुटं दद्यादेकविंशतिवारकम् । जायते तु तले भस्म हिडुलाभं सुनिश्वितम् ॥ द्विवल्लं घृतखण्डाभ्यां वीर्यस्तम्भं करोति च " - इति । यद्वा, “शुद्धसूतं समं तुत्थं घनक्काथेन सप्तधा । भावयित्वा रसं कूप्यां मुखे मुद्रां च कारयेत् ॥ वालुकायन्त्रमध्येऽग्निं दिनैकं ज्वालयेदधः । रसकर्पूरविख्यातः खोटबद्धो भवेद्रसः ” - इति । “क्षीरेणोत्तरवारुण्या त्रिदिनं शुद्धपारदम् । मर्दयेत्तु सदा खल्वे वज्रमूषान्धितं पुटेत् । करीषाम्नौ दिवारात्रं पचेत्सम्यगतन्द्रितः । तमुद्धृत्य पुनर्मर्यं तद्वदुवा च पाचयेत् ॥ तद्वन्मर्यं पुनः पाच्यं म्रियते पाण्डुरो रसः " - इति । यद्वा - "पलं सूतं पलं गन्धं कृष्णोन्मत्तद्रवैरुयहम् | मर्दितं वज्रमूषायां चक्रीकृत्वा पिधाय च ॥ दिनान्ते तत्समुद्धृत्य तद्वन्मर्य च पाचयेत् । एवं सप्तदिनं कुर्यान्मृतो भवति वै रसः ॥ रसः पन्नगवर्णस्तु चन्द्राक वेध(ष्ट)येत्क्रमात् । रुद्धा मूषान्धितं धार्यं दिव्यं भवति काञ्चनम् " - इति ॥ गर्तमध्ये वालुकां, तदुपरि मूषां वालुकयाऽऽच्छाद्य बाह्यगर्ते सर्वतोऽग्निः । हिङ्गुलप्रकारस्तु"अशुद्धं पारदं भागं चतुर्भागं च गन्धकम् । उभौ क्षिप्त्वा लोहपात्रे क्षणं मृद्वग्निना पचेत् ॥ तस्मिन्मनःशिलाचूर्ण पारदाद्दशमांशिकम् । क्षित्वा चाल्यमयोदय ह्यवतार्य सुशीतलम् ॥ कृत्वा च तुण्डशकलान् काचकूप्यां निरुध्य च । वस्त्रमृत्तिकया सम्यक्काचकूपीं प्रलेपयेत् ॥ सर्वतोऽङ्गुलमानेन छायाशुष्कां तु कारयेत् । वालुकायन्त्रगर्भे तु दिनं मृद्वग्निना पचेत् ॥ कमवृद्धाग्निना पश्चात्पचेद्दिवसपञ्चकम् । सप्ता
१ 'धान्ये' इति पा० । २ 'पिष्ट्वा' इति पा० । रस० ६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com