________________
रसपद्धतिः ।
हात्तु समुद्धृत्य हिड्डुलः स्यान्मनोहरः" इति । यद्वा "अकोल्लजेपालजधूर्तबीजतैलेन मी रसकज्जली सा । पश्चात्सुभाव्या विषखर्परस्य रसेन चार्कस्य दिनानि सप्त ॥ विषतिन्दुकबीजस्य क्वाथेन च दिनत्रयम् । पश्चात्कूप्यां विनिक्षिप्य पचेद्दिनचतुष्टयम्" इति । समुद्रशोषसमुद्रफलगुजाविषाहि फेनभावनाऽपि देया, कुमारीरसेन सप्त, अयमपि हिङ्गुलतुल्य इति । इदानीं गन्धकं विना रसभस्मप्रकारमाह"पञ्चाङ्गीबर्बरीलिङ्गीद्रवैर्घस्रत्रयं रसः । मर्दितः पुटितो भस्म वर्णवर्ण प्रजायते"इति; पुटं चात्र “गोष्ठान्तर्गोक्षुरक्षुण्णं शुष्कं चूर्णितगोमयम् । गोवरैर्वा तुषैर्वापि पुटं यत्र प्रदीयते । तद्गोवरपुटं प्रोक्तं रसभस्मप्रसिद्धये ॥ शरावसंपुटान्तःस्थं करीषैश्चाग्निमानवित् ॥ पचेत्तु चुहृयां यामं वा रसं तत्पुटयन्त्रकम् । वल्लीपलाशजैमुलैबीजैः पालाशसंभवैः ॥ जम्बीराम्लैमदितं तु पुन्नागयुतमाशु तत् । यन्त्रे डमरुकाख्ये च पाचितं म्रियते क्षणात्-" इति । दिव्यौषधयस्तु-“भाङ्गी मूषकपर्णी च शरपुढोर्ध्वपुष्पिका । अर्वाक्पुष्पी रुदन्ती च भेकपर्णी गवाक्षिका ॥ पुननवा शिखिशिखा कुठारच्छिन्नकाकुली। गोपालकर्कटी चेन्द्रगोपी वासनिका तथा ॥ सुमेरा राक्षसी नागदन्ती नागार्जुनी तथा । काण्डवल्ली विधारा च वज्री रक्तस्त्रिधारकः ॥ आदित्यभक्ताऽपामार्गबीजमेरण्डसंभवम् । देवदाली हरिकान्ता नाकुली देवपुष्पिका ॥ कर्कोटी करहुञ्ची च होलिनी क्षीरकन्दकः । वज्रकं वज्रकन्दश्च काण्डवल्लीति मूलिकाः। भावने पुटपाके च योज्याः सर्वत्र भस्मनि"-इति रसपद्धत्यां रससिन्दूरादिनिरूपणम् ॥ ८५-८७ ॥ अथ राजमृगाङ्कादौ रत्नानामुपयोगात्तेषां लक्षणपरीक्षाः निरूपयितुं प्रतिजानीतेवज्रं विद्रुममौक्तिके मरकतं वैदूर्यगोमेदके माणिक्यं हरिनीलपुष्पदृषदौ रत्नानि नाम्ना नव । यान्यन्यान्यपि सन्ति कानिचिदिह त्रैलोक्यसीनि स्फुटं नाम्ना तान्युपरत्नतामुपगतान्याहुः परीक्षाकृतः ॥८८ ॥ टी-परीक्षासु पण्डिता नवरत्नानि जगुः । नवस्वं संख्यातिरेकनियमार्थ; स्फटिकादीनामपि रत्नत्वात्कथं नवत्वानतिरेकः ? तेषामुपरत्नत्वेन गणितत्वात् । अत एवाह-यान्यन्यानीति । हीरकप्रवालमौक्तिकगरुडोद्गारवैदूर्यगोमेदमाणिक्येन्द्रनीलपुष्परागाः रत्नानि; एभ्योऽन्यानि वैक्रान्तसूर्यकान्तराजावर्तलालपेरोजाख्यानि, अन्यानि नीलपीतश्वेतकरकरूपाणि मणितुल्यानि उपरत्नानि जगुः । सीमाशब्दः खनिवाची । स्फुटशब्दो लोकप्रसिद्धिं द्योतयति । "धारयेत्सततं रत्नसिद्धमन्त्रमहौषधीः” इति वचनात् , ग्रहदुष्टौ रत्नदानं धारणं च विहितं, अतो रत्नानां तत्र ग्रेहाधिकरणत्वम् ॥ ८८ ॥ १ 'ग्रहादिवारणत्वं' इति पा।
-
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com