SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ रसपद्धतिः। ग्रहानुमैत्र्या मुद्रिकासु न्यस्तानां नवरत्नानां तत्तद्होत्पादितातापनिवर्तकत्वं दर्शितमाचार्यैर्ग्रथितवद्भिरतो नवरत्नमुद्रिकान्यासप्रकारमाहदिक्प्राची कुलिशस्य मौक्तिकमणेराग्नेयिका दक्षिणा दिग्वल्लीप्रभवस्य नैर्ऋतककुप् गोमेदसो वारुणी ॥ नीलांशोरथ दिग्विदूरजमणेायोः कुबेरस्य दिक् पुष्पस्याथ हरिन्मणेर्हरहरिच्छेषस्य शेषा हरित् ॥ ८९ ॥ टी०-हीरकादिन्यासः प्राच्यादिक्रमेण ज्ञेयः । 'कुलिशं भिदुरं पविः' इत्यमरः । वल्लीप्रभवं प्रवालम् । नीलांशुरिन्द्र नीलः । विदूरज वैदूर्यम् । पुष्पं पुष्परागः। हरिन्मणिः गरुडोद्वारः । हरहरित् ऐशानी। शेषस्य माणिक्यस्य, शेषा मध्या, कर्णिकायां न्यसेदित्यर्थः । अयमेकः प्रकारो मुद्रिकायाः ।। ८९ ॥ अशक्तस्य ग्रहप्रातिकूल्ये धारणदाने आहमाणिक्यं घुमणेर्बुधस्य गरुडोद्गारो गुरोः पुष्पर्क गोमेदं तमसः प्रवालमवनीमूनोविंधोमौक्तिकम् । नीलं मन्दगतेः कवेस्तु कुलिशं केतोपिंडालाक्षकं रनं रत्नविदो वदन्ति विहितं दाने तथा धारणे ॥९॥ टी०-द्युमणिः सूर्यः । तमो राहुः । 'तमस्तु राहुः स्वर्भानुः' इत्यमरः । अवनीसूनोर्मङ्गलस्य । मन्दगतेः शनैश्चरस्य । कवेः शुक्रस्य । बिडालाक्षकं विदूरमणिः । एतेषां प्रातिकूल्ये यथासंभवं धारणं दानं च कार्यम् । अन्ये तु "माणिक्यमुक्ताफलविद्रुमाणि तार्थं च पुष्पं भिदुरं च नीलम् । गोमेदकं चाथ विदूरकं च क्रमेण रत्नानि नवग्रहाणाम् । ग्रहानुमैय्या कुरुविन्दपुष्पप्रवालमुक्ताफलताओंवज्रम् । नीलाख्यगोमेदविदूरकं चं क्रमेण मुद्राधृतमिष्टसिध्यै"-इति । ग्रहेति ज्योतिःशास्त्रप्रकारेण । तानि रत्नानि शुद्धानि सुजातीनि दोषनिर्मुक्तानि धार्याणीत्युक्तम् ॥ ९० ॥तेषु वज्रस्याभ्यर्हितत्वात्तदुत्पत्त्याद्याहजातः प्राग्बलनामको दितिसुतोऽवध्यस्त्रिलोक्यां पुन वैदेहमयं मखे मणितनुः सर्वात्मना याचितः। दत्त्वाऽथ स्वशरीरमव्यथमयं धीरः सुराणां पुरस्तस्थौ तैः स तु सप्ततन्तुभुजिभिः स्वर्गेश्वरायार्पितः ॥११॥ चिच्छेदाथ शिरोऽस्य वज्रशिरसो वज्रेण वज्री पुनभूतो रत्नसमुच्चयो बल इति माहुः पुराणर्षयः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy