________________
रसपद्धतिः । टी-प्राकृतयुगे दितिसुतस्त्रैलोक्यामवध्यो जातः, तेन जपे(ये) आरब्धे अजेयवान्मणितनुरयं मखे देवैः सर्वात्मना याचितः, सर्वशरीरमस्माकं देयमिति, अथ याञ्चानन्तरं खशरीरं देवेभ्यो दास्यामीत्युक्त्वा अनन्तरं तेषां सुराणां संमुखं यथा भवति तथा तस्थौ, ततः सप्ततन्तुभुजिभिर्यज्ञभुग्भिस्तैः स्वर्गेश्वराय इन्द्राय अर्पितो दत्तः । अथ दानानन्तरं वज्री वज्रेणास्य वज्रतुल्यशिरसः शिरं चिच्छेद, सः रत्नसमुच्चयोऽभूत् । तं बलसमुच्चय इति पुराणर्षय आहुः स्म, तदङ्गविभागोत्पन्नत्वेन ॥ ९१॥वज्राणां संज्ञाचतुष्टयमाहमूों वा वदनादमुष्य पवयो ये जज्ञिरे ते द्विजा बाहुभ्यामरसोऽस्य ये समभवंस्ते संस्मृताः क्षत्रियाः॥१२॥ नाभीतः कटितश्च ये निपतितास्ते नाम भूमिस्पृशो जानुद्वन्द्वपदद्वयप्रपतितास्ते नाम शूद्रा मताः॥ टी०-अमुष्य वदनान्मूर्हो वाऽपि ये पवयो जातास्ते द्विजा ब्राह्मणसंज्ञया जज्ञिरे । ये बाहुभ्यामुरस उत्पन्नास्ते क्षत्रियाः । भूमिस्पृशो वैश्याः । जानुद्वन्द्वात्पदद्वन्द्वाच्च जाताः शूद्राः । तथा च बलशरीरात्सर्वे हीरका जाता इति भावः ॥१२॥
पूर्व मन्दरमथ्यमानजलधिप्रोदुत्थिता याः सुधास्ताः प्रायः पिबतः सुरासुरगणस्यास्यादिमे बिन्दवः ॥१३॥ ये भूमौ पतिता विकर्तनकरवातैः पुनः शोषितास्ते वज्राण्यभवञ्जनुर्ननु पवेरित्युचिरे केचन ॥ टी0-केचन पवेर्वज्रस्य जनुः इति जनुर्जन्म अचिरे उक्तवन्तः । इति किं ? मन्दरेण मथ्यमानो यो जलनिधिस्तस्मात्प्रोदुत्थिता याः सुधाः अमृतानि, ताः पिबतः सुरासुरगणस्य आस्यादिमे बिन्दवः ये भूमौ प्रायः पतितास्ते वज्राणि अभवन्निति । कीदृशाः ? विकर्तनः सूर्यस्तस्य करवाताः किरणसमूहास्तैः शोषिताः कठिनतां प्राप्ताः। एतावताऽमृतोद्भवत्वेनाजरामरत्वकारित्वं सूचितम् । काठिन्यं तु भूमिखभावात् ॥ ९३ ॥उत्पत्तिमभिधाय तेषामष्टप्रकारकं विज्ञानमाहउत्पत्तिर्गुणदोषजातिखनयो हस्ताङ्गुलीचालनं मूल्यं मण्डलिकेति रत्नदृषदां ज्ञानं वदन्त्यष्टधा ॥ ९४ ॥ अत्रैकप्रसरेण नोक्तमपि तज्ज्ञानं परीक्षास्थलश्लोकैः श्लोकितमेकशः खलु विदांकुर्वन्तु वैज्ञानिकाः । १ 'तत्तत्तत्परीक्षा०' इति पा० ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com