SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ रसपद्धतिः । टी० उत्पत्तिः आकरभूमिः, यथा-वैरागरपर्वतोत्पन्नः समीचीनः, ततस्तु मगधदेशोत्पन्नः किंचिन्यूनः, तदपेक्षयाऽन्यस्थो न्यूनस्ततोऽप्यन्य इत्यादि । मण्डलिका रत्नपरीक्षकसभा । रत्नषदामित्यनेन सर्वेषां रत्नानामेव परीक्षा कर्तव्येति प्रतिपादितम् । अत्र यद्यपि एकप्रसरेणैव नोक्तं, तथाऽपि वैज्ञानिका ज्ञातसिद्धान्ताः परीक्षकाः तत्तत्परीक्षास्थलस्था ये श्लोकास्तैः श्लोकितं कथितं, एकश एकत्र विदांकुर्वन्तु जानन्तु, यतः सिद्धान्तज्ञाः ॥ ९४ ॥ ब्रह्मक्षत्रियवैश्यशूद्र विभिदा ज्ञेयश्चतुर्धा पविः पुंस्त्रीक्लीबविभागतः पुनरसौ प्रत्येकमुक्तस्त्रिधा ॥ ९५॥ टी० तत्रोत्पत्तिं प्रतिपाद्य जातीराह-ब्राह्मणादिभेदात्पविश्चतुर्धा । सोऽपि प्रत्येकं त्रेधा ॥ ९५॥ तत्र वर्णेन द्विजादिलक्षणमाहतत्र श्वेतरुचिर्द्विजः स्फटिकवद्रक्तस्तु किंचिन्नृपो वैश्यः पीतरुगनिजस्त्वसितभास्तत्राप्ययं पूरुषः । रेखाबिन्दुविवर्जितोऽष्टफलकः स्वच्छछवियों भवेत्सा स्त्री या तु षडस्रबिन्दुसहिता रेखान्वितोदाहृता ॥१६॥ निष्कोणाश्चिपिटास्त्रिकोणवपुषो दीर्घा विपुंस्त्वाः पुन र्धार्याः स्त्रीनृनपुंसकैर्युवतिषण्ढाभिधानाः क्रमात् । निःसंदेहमिह क्रतोरपि कृतेर्दानस्य वा यत्फलं तत्प्राप्नोति पुमानतो वरतनोर्वज्रस्य संधारणात् ॥ ९७ ॥ चातुर्वर्ण्यपरिग्रहादपि चतुर्वर्णाश्रयश्रेयसा संयुक्तामुररीकरोति न कथंकारं स भूतिं पराम् । टी०-तत्रेति । यः स्फटिकवच्छेतरुचिः स द्विजः । यः किंचिद्रक्तः स नृपः क्षत्रियः । यः पीतरुक्स वैश्यः । यश्चासितभाः सोऽविजः शूद्रः । पुंस्त्रयादिलक्षणमाह-तत्रेत्यादि । रेखाबिन्दुविवर्जितोऽष्टफलकः स्वच्छछवियः भवेत्सः पूरुषः । षडला बिन्दुसहिता रेखान्विता च सा स्त्री उदाहृता । ये निष्कोणास्त्रिकोणवपुषो दीर्घाश्च ते विपुंस्त्वाः नपुंसका इत्यर्थः । तेषां धारणे नियममाह-स्त्रीपुनपुंसकैयुवतिपुंषण्ढाभिधानाः क्रमाद्धार्याः। स्त्रियः स्त्रीजातिमिर्धार्याः, अन्यथाऽनर्थः । उत्तमस्य पवेः संधारणादिमिर्धर्मार्थों भवत इत्याह-निःसंदेहमित्यादि । पुमान्वज्रस्य धारणेन यज्ञकृतेर्दानस्य कृतेर्यत्फलं प्राप्नोति तद्भवतीत्यन्वयः । अतः १ 'यद्वेदाध्ययनात्' इति पा० । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy