________________
रसपद्धतिः ।
वरतनोरिति विशेषणं वज्रस्य । चातुर्वर्ण्यपरिग्रहात् ब्रह्मक्षत्रियवैश्यशदाणां धारणात् , तत्तद्वर्णजनिकां भूतिं कथंकारं न उररीकरोति । तस्माचत्वारोऽपि हीरका धर्मार्थकामेप्सुमिः स्थापनीया इति तात्पर्यार्थः ॥ ९६ ॥ ९७ ॥गुणतः शूद्रवर्णोऽपि पविर्द्विजवर्णादधिक इत्याहशूद्रादप्यधमो द्विजो यदि गुणैीनः पविाह्मणादप्युच्चैरयमर्घमर्हति पुनः शूद्रो गुणैर्गौरवात् ।। ९८ ॥ आधिव्याधिसरीसृपानलरिपुव्याघ्रापमृत्युग्रहास्तं नैवाभिभवन्ति यस्य सदने तिष्ठेत्पवित्रः पविः ॥ टी० शूद्रादिति । वक्ष्यमाणगुणगणैर्यदि युक्तः शूद्रवर्णस्तस्माद्ब्राह्मणवर्णो हीनो ज्ञेयः । मौल्यमप्यधिकमर्हति, 'मौल्यं पूजाविधावर्घः' इत्यमरः । यद्गृहे एतादृशः पविस्तिष्ठेत्तमाधिव्याध्यादयो नाभिभवन्ति; आधिर्मानसी पीडा, सरीसृपाः सर्पादयः, अनलो वह्निः, रिपुः शत्रुः, व्याघ्रो हिंस्रः, अपमृत्युरकालमृत्युः, ग्रहाः सूर्यादयः भूतादयो वा ॥ ९८ ॥दोषानुद्दिशतिविन्दुः काकपदं यवः किल मलो रेखेति नानोदिता दोषाः पञ्च पवेरथात्र कथितो विन्दुः समो बिन्दुना ॥१९॥ कृष्णो रक्त इति क्रमेण स पुनद्वैधा मतो वर्तुलावृत्ताकारभिदा ग्रहीतुरफलः शस्तो न सर्वोऽपि सः॥ टी० बिन्दुरित्यादि । बिन्दुर्जलबिन्दुरिव, काकपदं पुस्तकशोधार्थ यद्दीयते तद्वत् , यवः यवाकारो बिन्दुविशेषः, मलः बाह्य आभ्यन्तरो वा त्रासाख्यः, रेखा राजी रक्ता पीता वा । एते पञ्च दोषाः पवेर्जेयाः । बिन्दुं लक्षयति-अथात्रेति । बिन्दुद्वैधा कृष्णो रक्तः। सोऽपि द्विविधः वर्तुलोऽवतुलश्च । बिन्दुविशिष्टं निषेधयति-प्रहीतुरित्यादि । ग्रहीतुः ग्राहकस्याफलः धनादिलाभस्याकर्ता; सर्वोऽपि सः शस्त्रो न॥१९॥ काकपदं लक्षयतिज्ञेयं काकपदं तु काकचरणाकारं परीक्षाकृता वजे श्रीमति संस्थितं पुनरिदं धतुर्भवेन्मृत्युदम् ॥ १० ॥ टी-परीक्षाकृता पण्डितेन ज्ञेयम् । धतुर्मृत्युदमपि भवेत् ॥ १० ॥ रक्तापीतसितासितच्छविभिदा ज्ञेयश्चतुर्धा यवाकारस्तत्र यवः सितः खलु पवेः पूज्योऽपरे निन्दिताः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com