________________
रसपद्धतिः । टी०-यवलक्षणमाह-रक्तेत्यादि । रक्तपीतसितकृष्णभेदाच्चतुर्धा । तत्र सितः पूज्यः, अपरे निषिद्धाः।मलं लक्षयति । धारायामथ कोणयोर्निगदितो मध्ये च लौहो मलस्त्रेधा सोऽप्यनलादिभीतिजननो धतुर्भवेनिश्चितम् ॥१०१॥ टी०-धारायामित्यादि।-धारायां मलः, कोणे मलः, मध्ये मल इति त्रेधा लौहो मलो शेयः । तद्युक्तग्रहणे दोषमाह-सोऽपीति । तच्छब्देन मलविशिष्टो गृह्यते । तद्धारयितुरनलादिभिर्भीतिरवश्यं भवति, तस्मान्न धार्यो न ग्राह्यश्च ॥१०१॥ चतुर्धा रेखा विभजतेसव्यासव्यनिवासिनी तदपरा तत्र स्थिता छेदिनी छिन्ना चोर्ध्वगतिर्मतेति विबुधै रेखाश्चतस्रः पवेः। टी०-सव्या वामा, अपसव्या दक्षिणस्था, छेदवती या रेखा स्थिता, अपरा छिन्ना सती ऊर्ध्वगतिः या ऊर्ध्व गता; एवं चतस्रो रेखा मताः। तथा च-एका सव्या रेखा, एका दक्षिणा रेखा, छेदिनी स्थिता एका, छेदिनी चोर्ध्वगता एका ॥तासां निन्दितलमनिन्द्यत्वं चाहसव्या तत्र शुभाऽपराः पुनरमूर्दोर्भाग्यदा वर्तुलेऽप्यन्तर्भेदिनि लमकोणिनि पवौदोषास्त्वकिंचित्कराः १०२ टी०-सव्येति । तत्र सव्या या सा शुभा भवति । अपरास्तिस्रो दौर्भाग्यादिकारिण्यः । उक्तदोषाणामपवादमाह-वर्तुले इत्यादि । वर्तुले वर्तलाकारे तस्याः खरूपे । दोषे लमकोणिनि संलग्नकोणे । एवंभूते वज्रे एते दोषाः सर्वेऽप्यकिंचित्करा निष्फला इत्यर्थः ॥ १०२॥ गुणानुद्दिशति ।अच्छत्वं लघुता तथाऽष्टफलता षट्कोणता तीक्ष्णताऽप्येतान्पश्च गुणान् गृणन्ति गुणिनो देवोपभोग्ये पवौ १०३ टी०-अच्छत्वमिति । उत्तमे पवौ आदर्शादिवदच्छत्वम् । लघुता तुषवत् ।
मिति । उत्तम पवा आदशीविदच्छत्वम् । लघुता उपवन अष्टदलता अष्टफलकता। षट्कोणता षडस्रता । तीक्ष्णता अन्यमणिभेदकता । एते पञ्च गुणाः ॥ १०३ ॥
. १ 'धाराकोणकमध्यसंस्थिततया त्रेधा मलो रत्न विद्याख्यातः स पुनर्ग्रहीतुरनलव्याघ्रादिभीतिप्रदः' इति पाठान्तरम् । २ 'तथाऽष्टदलता' इति पा० ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com