________________
रसपद्धतिः।
उपसंहारव्याजेन खनिं निरूपयति ।जातिः प्राक्तु निरूपिता जनिरपि प्रोक्ता खनिस्त्वष्टधा दे द्वे तत्र युगे युगे प्रभवतस्तत्रादिमे कोशलः । कालिङ्गस्तदनन्तरे निगदितो वङ्गस्तथा मालव: सौराष्ट्रो मणिपुण्ड्रकः कलियुगे सोपारवज्राकरौ ॥ १०४ ॥ टी-जातिः ब्राह्मणत्वादिजातिः । जनिः दैयदेहोत्पन्नत्वादिः। खनिः आकरः । 'खनिः स्त्रियामाकरः स्यात्' इत्यमरः । सा चाष्टधा । तत्र युगपुरस्कारेण द्वे द्वे भवतः । तत्रादिमे कृतयुगे कोशलः कोशलदेशः कालिङ्गदेशश्च । त्रेतायुगे वङ्गदेशो मालवश्च । द्वापरयुगे सौराष्ट्रदेशो मणिपुण्डूकपर्वतश्च । कलियुगे तु सोपारदेशो वज्राकरः वैरागरश्च । एवं खनीज॑त्वा मौल्यमादिशेदिति भावः ॥ १०४॥ तत्र मौल्यज्ञानार्थ मानपरिभाषामाह
चत्वारः सितसर्षपा पैनसिका ते द्वे पुनस्तण्डुलस्ताभ्यामेव यवो यवः पुनरयं पिण्डो(ण्डे)ऽस्ति किंचित्पृथुः।
टी-चत्वार इति। सितसर्षपाश्चत्वारः सिद्धार्थकास्तैर्पनसिका, ताभ्यां तण्डुलः, तण्डुलाभ्यामेव यवः। प्रकृते योजयति-यवः पुनरिति । पिण्डशब्दः स्थौल्यवाचकः, अयं वंशयववस्थूलः अधिको वा किंचित् । तोलनिकातुलायां संतोल्य मौल्यमादिशेत् ॥1. व्यवहारार्थ संज्ञामाह । -
पिण्डो गात्रमिति द्विधा पविवपुः संज्ञाऽस्य संज्ञामिमां ज्ञात्वा मानकंदण्डतो बत महन्मध्याल्पमौल्यं वदेत् ॥१०५॥ टी०-पिण्डो गात्रमिति । तथा च यवाकारं पिण्डं मानं तु पनसिकातुल्यं चेत्तदा महन्मौल्यम् । यदा यवाकारः पिण्डे मानेऽपि यवपरिमितस्तदा मध्यं मौल्यम् । यदा यवमितः पिण्डे माने यवचतुष्टयस्तदा तु हीनमौल्यमादिशेत् । तत्रापि अच्छत्वादयो गुणाश्चेत्तदा महन्मौल्यम् । यदा तु दोषादिजुष्टता तदा हीनमौल्यमित्यादि सर्व बुद्ध्या विचार्यम् ॥ १०५ ॥
मौल्यं न प्रतिदेशमस्ति सदृशं येनेदमित्थं मया वाच्यं तत्र तथापि गवत इह त्रैराशिकं कान्तये । १ 'मनसिका' इति पा० । २ 'मानमिदं च तोलनिकया संतोल्य मौल्यं वदेत्' इति पा०।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com